Loading...
ऋग्वेद मण्डल - 8 के सूक्त 75 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 75/ मन्त्र 15
    ऋषिः - विरुपः देवता - अग्निः छन्दः - विराड्गायत्री स्वरः - षड्जः

    पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ अ॒भ्या त॑र । यत्रा॒हमस्मि॒ ताँ अ॑व ॥

    स्वर सहित पद पाठ

    पर॑स्याः । अधि॑ । स॒म्ऽवतः॑ । अव॑रान् । अ॒भि । आ । त॒र॒ । यत्र॑ । अ॒हम् । अस्मि॑ । तान् । अ॒व॒ ॥


    स्वर रहित मन्त्र

    परस्या अधि संवतोऽवराँ अभ्या तर । यत्राहमस्मि ताँ अव ॥

    स्वर रहित पद पाठ

    परस्याः । अधि । सम्ऽवतः । अवरान् । अभि । आ । तर । यत्र । अहम् । अस्मि । तान् । अव ॥ ८.७५.१५

    ऋग्वेद - मण्डल » 8; सूक्त » 75; मन्त्र » 15
    अष्टक » 6; अध्याय » 5; वर्ग » 26; मन्त्र » 5

    पदार्थः -
    हे भगवन् ! परस्याः=अन्यस्याः । संवतः=लुण्ठकादीनां सभा । अधि=वर्जयित्वा । अवरान्=तवाधीनान् अस्मान् । अभ्यातर=आगच्छ । यत्र=येषु मनुष्येषु । अहमस्मि । तान् अव=रक्ष ॥१५ ॥

    इस भाष्य को एडिट करें
    Top