Loading...
ऋग्वेद मण्डल - 8 के सूक्त 75 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 75/ मन्त्र 14
    ऋषिः - विरुपः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः

    यस्याजु॑षन्नम॒स्विन॒: शमी॒मदु॑र्मखस्य वा । तं घेद॒ग्निर्वृ॒धाव॑ति ॥

    स्वर सहित पद पाठ

    यस्य॑ । अजु॑षत् । न॒म॒स्विनः॑ । शमी॑म् । अदुः॑ऽमखस्य । वा॒ । तम् । घ॒ । इत् । अ॒ग्निः । वृ॒धा । अ॒व॒ति॒ ॥


    स्वर रहित मन्त्र

    यस्याजुषन्नमस्विन: शमीमदुर्मखस्य वा । तं घेदग्निर्वृधावति ॥

    स्वर रहित पद पाठ

    यस्य । अजुषत् । नमस्विनः । शमीम् । अदुःऽमखस्य । वा । तम् । घ । इत् । अग्निः । वृधा । अवति ॥ ८.७५.१४

    ऋग्वेद - मण्डल » 8; सूक्त » 75; मन्त्र » 14
    अष्टक » 6; अध्याय » 5; वर्ग » 26; मन्त्र » 4

    पदार्थः -
    यस्य+नमस्विनः=यस्य+ईश्वरोपासकस्य । अदुर्मखस्य वा=अदुष्टयागस्य वा । शमीं=कर्म । विद्वद्गणः । अजुषत्=सेवते । तं+घ+इत्=तमेव पुरुषम् । अग्निः परमात्मदेवः । वृधा+अवति=वृद्ध्या रक्षति ॥१४ ॥

    इस भाष्य को एडिट करें
    Top