ऋग्वेद - मण्डल 8/ सूक्त 76/ मन्त्र 1
इ॒मं नु मा॒यिनं॑ हुव॒ इन्द्र॒मीशा॑न॒मोज॑सा । म॒रुत्व॑न्तं॒ न वृ॒ञ्जसे॑ ॥
स्वर सहित पद पाठइ॒मम् । नु । मा॒यिन॑म् । हु॒वे॒ । इन्द्र॑म् । ईशा॑नम् । ओज॑सा । म॒रुत्व॑न्तम् । न वृ॒ञ्जसे॑ ॥
स्वर रहित मन्त्र
इमं नु मायिनं हुव इन्द्रमीशानमोजसा । मरुत्वन्तं न वृञ्जसे ॥
स्वर रहित पद पाठइमम् । नु । मायिनम् । हुवे । इन्द्रम् । ईशानम् । ओजसा । मरुत्वन्तम् । न वृञ्जसे ॥ ८.७६.१
ऋग्वेद - मण्डल » 8; सूक्त » 76; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 27; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 27; मन्त्र » 1
विषयः - प्राण मित्रपरेशस्य महिमाऽथ गीयते ।
पदार्थः -
हे मनुष्याः ! अहमुपासकः । न=सम्प्रति । वृञ्जसे=निखिलान्तःशत्रुनिपातनाय । यद्वा न वृञ्जसे मम न त्यागाय किन्तु ग्रहणाय । मरुत्वन्तम्=प्राणपतिम् । मरुतः=प्राणाः । तेषां यः सखा स मरुत्वान् । ओजसा=स्वशक्त्या । ईशानम्=जगति=शासकम् । मायिनं=महाप्रज्ञं सर्वज्ञम् । इममिन्द्रन्नु । हुवे=प्रार्थये । तद्वद् यूयमपि तमाह्वयध्वम् ॥१ ॥