ऋग्वेद - मण्डल 8/ सूक्त 76/ मन्त्र 2
अ॒यमिन्द्रो॑ म॒रुत्स॑खा॒ वि वृ॒त्रस्या॑भिन॒च्छिर॑: । वज्रे॑ण श॒तप॑र्वणा ॥
स्वर सहित पद पाठअ॒यम् । इन्द्रः॑ । म॒रुत्ऽस॑खा । वि । वृ॒त्रस्य॑ । अ॒भि॒न॒त् । शिरः॑ । वज्रे॑ण । श॒तऽप॑र्वणा ॥
स्वर रहित मन्त्र
अयमिन्द्रो मरुत्सखा वि वृत्रस्याभिनच्छिर: । वज्रेण शतपर्वणा ॥
स्वर रहित पद पाठअयम् । इन्द्रः । मरुत्ऽसखा । वि । वृत्रस्य । अभिनत् । शिरः । वज्रेण । शतऽपर्वणा ॥ ८.७६.२
ऋग्वेद - मण्डल » 8; सूक्त » 76; मन्त्र » 2
अष्टक » 6; अध्याय » 5; वर्ग » 27; मन्त्र » 2
अष्टक » 6; अध्याय » 5; वर्ग » 27; मन्त्र » 2
विषयः - तस्योपकारं दर्शयति ।
पदार्थः -
अयमिन्द्रो=जगदीशः । यतो मरुत्सखा=प्राणानां सखास्ति । अतस्तेषाम् । वृत्रस्य=आवरकस्य अज्ञानस्य । शिरः । व्यभिनत्=विभिनत्ति । केन । शतपर्वणा वज्रेण ॥२ ॥