Loading...
ऋग्वेद मण्डल - 8 के सूक्त 78 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 78/ मन्त्र 4
    ऋषिः - कुरुसुतिः काण्वः देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    नकीं॑ वृधी॒क इ॑न्द्र ते॒ न सु॒षा न सु॒दा उ॒त । नान्यस्त्वच्छू॑र वा॒घत॑: ॥

    स्वर सहित पद पाठ

    नकी॑म् । वृ॒धी॒कः । इ॒न्द्र॒ । ते॒ । न । सु॒ऽसाः । न । सु॒ऽदाः । उ॒त । न । अ॒न्यः । त्वत् । शू॒र॒ । वा॒घतः॑ ॥


    स्वर रहित मन्त्र

    नकीं वृधीक इन्द्र ते न सुषा न सुदा उत । नान्यस्त्वच्छूर वाघत: ॥

    स्वर रहित पद पाठ

    नकीम् । वृधीकः । इन्द्र । ते । न । सुऽसाः । न । सुऽदाः । उत । न । अन्यः । त्वत् । शूर । वाघतः ॥ ८.७८.४

    ऋग्वेद - मण्डल » 8; सूक्त » 78; मन्त्र » 4
    अष्टक » 6; अध्याय » 5; वर्ग » 31; मन्त्र » 4

    पदार्थः -
    हे इन्द्र ! त्वदन्यः कश्चित् । वृधीकः=वर्धयिता । नकीम्=नैवास्ति । ते=त्वत्तोऽन्यः । सुसाः=सुष्ठु संभक्ता नैवास्ति । उत=अपि च । सुदाः=सुष्ठु दाता नैव । हे शूर ! त्वत्=त्वत्तः । अन्यः । वाघतः=धार्मिकस्य पुरुषस्य नेता नास्ति । अतो ममापि प्रार्थनां शृणु ॥४ ॥

    इस भाष्य को एडिट करें
    Top