Loading...
ऋग्वेद मण्डल - 8 के सूक्त 80 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 80/ मन्त्र 1
    ऋषिः - एकद्यूर्नौधसः देवता - इन्द्र: छन्दः - विराड्गायत्री स्वरः - षड्जः

    न॒ह्य१॒॑न्यं ब॒ळाक॑रं मर्डि॒तारं॑ शतक्रतो । त्वं न॑ इन्द्र मृळय ॥

    स्वर सहित पद पाठ

    न॒हि । अ॒न्यम् । ब॒ला । अक॑रम् । म॒र्डि॒तार॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥


    स्वर रहित मन्त्र

    नह्य१न्यं बळाकरं मर्डितारं शतक्रतो । त्वं न इन्द्र मृळय ॥

    स्वर रहित पद पाठ

    नहि । अन्यम् । बला । अकरम् । मर्डितारम् । शतक्रतो इति शतऽक्रतो । त्वम् । नः । इन्द्र । मृळय ॥ ८.८०.१

    ऋग्वेद - मण्डल » 8; सूक्त » 80; मन्त्र » 1
    अष्टक » 6; अध्याय » 5; वर्ग » 35; मन्त्र » 1

    पदार्थः -
    हे शतक्रतो=अनन्तकर्मन् सर्वशक्तिमन् देव ! त्वत्तः । अन्यम् । मर्डितारं=नहि अकरं न पश्यामि । बळा=बट्=सत्यमेतत् । अतः । हे इन्द्र ! त्वम्+नः=अस्मान् । मृळय=सुखय ॥१ ॥

    इस भाष्य को एडिट करें
    Top