Loading...
ऋग्वेद मण्डल - 8 के सूक्त 80 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 80/ मन्त्र 2
    ऋषिः - एकद्यूर्नौधसः देवता - इन्द्र: छन्दः - निचृद्गायत्री स्वरः - षड्जः

    यो न॒: शश्व॑त्पु॒रावि॒थामृ॑ध्रो॒ वाज॑सातये । स त्वं न॑ इन्द्र मृळय ॥

    स्वर सहित पद पाठ

    यः । नः॒ । शश्व॑त् । पु॒रा । आवि॑थ । अमृ॑ध्रः । वाज॑ऽसातये । सः । त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥


    स्वर रहित मन्त्र

    यो न: शश्वत्पुराविथामृध्रो वाजसातये । स त्वं न इन्द्र मृळय ॥

    स्वर रहित पद पाठ

    यः । नः । शश्वत् । पुरा । आविथ । अमृध्रः । वाजऽसातये । सः । त्वम् । नः । इन्द्र । मृळय ॥ ८.८०.२

    ऋग्वेद - मण्डल » 8; सूक्त » 80; मन्त्र » 2
    अष्टक » 6; अध्याय » 5; वर्ग » 35; मन्त्र » 2

    पदार्थः -
    हे इन्द्र ! यस्त्वम् । अमृध्रः=अहिंसकः अविनश्वरः । शश्वत्=सर्वदा । पुरा=पूर्वस्मिन् काले । नः=अस्मान् । वाजसातये=ज्ञानलाभाय । आविथ=रक्षितवान् । स त्वम् । नः=अस्मान् । हे इन्द्र ! मृळय ॥२ ॥

    इस भाष्य को एडिट करें
    Top