Loading...
ऋग्वेद मण्डल - 8 के सूक्त 80 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 80/ मन्त्र 9
    ऋषिः - एकद्यूर्नौधसः देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    तु॒रीयं॒ नाम॑ य॒ज्ञियं॑ य॒दा कर॒स्तदु॑श्मसि । आदित्पति॑र्न ओहसे ॥

    स्वर सहित पद पाठ

    तु॒रीय॑म् । नाम॑ । य॒ज्ञिय॑म् । य॒दा । करः॑ । तत् । उ॒श्म॒सि॒ । आत् । इत् । पतिः॑ । नः॒ । ओ॒ह॒से॒ ॥


    स्वर रहित मन्त्र

    तुरीयं नाम यज्ञियं यदा करस्तदुश्मसि । आदित्पतिर्न ओहसे ॥

    स्वर रहित पद पाठ

    तुरीयम् । नाम । यज्ञियम् । यदा । करः । तत् । उश्मसि । आत् । इत् । पतिः । नः । ओहसे ॥ ८.८०.९

    ऋग्वेद - मण्डल » 8; सूक्त » 80; मन्त्र » 9
    अष्टक » 6; अध्याय » 5; वर्ग » 36; मन्त्र » 4

    पदार्थः -
    हे इन्द्र ! त्वम् । यज्ञियं=यज्ञसम्बन्धि यत्तुरीयं चतुर्थम् । नाम । अस्माकम् । करः=करोषि । तदुश्मसि=तन्नाम वयमिच्छामः । यतः । आदित्=तदनन्तरमेव । नः=अस्माकम् । त्वं पतिः । ओहसे भवसि । तदैव यज्ञं कुर्वन्तो वयं त्वां पतिं स्वीकुर्म इत्यर्थः ॥९ ॥

    इस भाष्य को एडिट करें
    Top