ऋग्वेद - मण्डल 8/ सूक्त 80/ मन्त्र 10
अवी॑वृधद्वो अमृता॒ अम॑न्दीदेक॒द्यूर्दे॑वा उ॒त याश्च॑ देवीः । तस्मा॑ उ॒ राध॑: कृणुत प्रश॒स्तं प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
स्वर सहित पद पाठअवी॑वृधत् । वः॒ । अ॒मृ॒ताः॒ । अम॑न्दीत् । ए॒क॒ऽद्यूः । दे॒वाः॒ । उ॒त । याः । च॒ । दे॒वीः॒ । तस्मै॑ । ऊँ॒ इति॑ । राधः॑ । कृ॒णु॒त॒ । प्र॒ऽश॒स्तम् । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥
स्वर रहित मन्त्र
अवीवृधद्वो अमृता अमन्दीदेकद्यूर्देवा उत याश्च देवीः । तस्मा उ राध: कृणुत प्रशस्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥
स्वर रहित पद पाठअवीवृधत् । वः । अमृताः । अमन्दीत् । एकऽद्यूः । देवाः । उत । याः । च । देवीः । तस्मै । ऊँ इति । राधः । कृणुत । प्रऽशस्तम् । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥ ८.८०.१०
ऋग्वेद - मण्डल » 8; सूक्त » 80; मन्त्र » 10
अष्टक » 6; अध्याय » 5; वर्ग » 36; मन्त्र » 5
अष्टक » 6; अध्याय » 5; वर्ग » 36; मन्त्र » 5
विषयः - N/A
पदार्थः -
हे अमृताः=मरणरहिताः ! हे देवाः ! एकद्यूः= दैनिकयज्ञकर्त्ता । वः=युष्मान् । अवीवृधत्=वर्धयति । स्तुत्या । अमन्दीत्=आनन्दयति । उत=अपि च । युष्माकं मध्ये याः । च+देवीः=देव्यः । ता अपि वर्धयति=आनन्दयति च । ते यूयम् । तस्मै+उ । राधः=धनादिकम् । प्रशस्तम् । कृणुत । युष्माकं कृपया । धियावसुः=हृदयवासी, ज्ञाने विराजमानः । मक्षू=शीघ्रम् । प्रातरेव । जगम्यात्=गच्छेत् ॥१० ॥