Loading...
ऋग्वेद मण्डल - 8 के सूक्त 81 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 81/ मन्त्र 1
    ऋषिः - कुसीदी काण्वः देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    आ तू न॑ इन्द्र क्षु॒मन्तं॑ चि॒त्रं ग्रा॒भं सं गृ॑भाय । म॒हा॒ह॒स्ती दक्षि॑णेन ॥

    स्वर सहित पद पाठ

    आ । तु । नः॒ । इ॒न्द्र॒ । क्षु॒ऽमन्त॑म् । चि॒त्रम् । ग्रा॒भम् । सम् । गृ॒भ॒य॒ । म॒हा॒ऽह॒स्ती । दक्षि॑णेन ॥


    स्वर रहित मन्त्र

    आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय । महाहस्ती दक्षिणेन ॥

    स्वर रहित पद पाठ

    आ । तु । नः । इन्द्र । क्षुऽमन्तम् । चित्रम् । ग्राभम् । सम् । गृभय । महाऽहस्ती । दक्षिणेन ॥ ८.८१.१

    ऋग्वेद - मण्डल » 8; सूक्त » 81; मन्त्र » 1
    अष्टक » 6; अध्याय » 5; वर्ग » 37; मन्त्र » 1

    पदार्थः -
    हे इन्द्र ! सर्वद्रष्टः यतस्त्वम् । महाहस्ती=महाहस्तवान् महाशक्तिस्त्वं वर्तसे । अतः । दक्षिणेन=दक्षेण=महाबलवता हस्तेन । नः=अस्मदर्थम् । क्षुमन्तं=प्रशस्तम् । चित्रं=चायनीयम् । ग्राभं=गृहणीयम् । ज्ञानादिकम् । संगृभाय=संगृहाण ॥१ ॥

    इस भाष्य को एडिट करें
    Top