Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1069
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - आदित्याः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
1
ते꣡ स्या꣢म देव वरुण꣣ ते꣡ मि꣢त्र सू꣣रि꣡भिः꣢ स꣣ह꣢ । इ꣢ष꣣꣬ꣳ स्व꣢꣯श्च धीमहि ॥१०६९॥
स्वर सहित पद पाठते꣢ । स्या꣣म । देव । वरुण । ते꣢ । मि꣣त्र । मि । त्र । सूरि꣡भिः꣢ । स꣣ह꣢ । इ꣡ष꣢꣯म् । स्वऽ३रि꣡ति꣢ । च꣣ । धीमहि ॥१०६९॥
स्वर रहित मन्त्र
ते स्याम देव वरुण ते मित्र सूरिभिः सह । इषꣳ स्वश्च धीमहि ॥१०६९॥
स्वर रहित पद पाठ
ते । स्याम । देव । वरुण । ते । मित्र । मि । त्र । सूरिभिः । सह । इषम् । स्वऽ३रिति । च । धीमहि ॥१०६९॥
सामवेद - मन्त्र संख्या : 1069
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ वरुणं मित्रं च प्रार्थयते।
पदार्थः -
हे (देव) प्रकाशक, ज्ञानवन् (वरुण) वरणीय जीवात्मन् ! वयम् (ते) तव (स्याम) भवेम, हे (मित्र) सखे परमात्मन् ! (सूरिभिः सह) विद्वद्भिः साकम्, वयम् (ते) तव (स्याम) भवेम। (इषम्) अभीष्टम् ऐश्वर्यम् (स्वः च) आनन्दं च (धीमहि) दधीमहि। [डुधाञ् धातोर्लिङि ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वात् शबभावः ईत्वं च] ॥३॥
भावार्थः - परमात्मजीवात्मनोः सख्यं प्राप्य सर्वे मनुष्या ज्ञानवन्तः प्रकाशवन्तः सानन्दा ऐश्वर्यवन्तः प्राप्तमोक्षाश्च भवेयुः ॥३॥
टिप्पणीः -
१. ऋ० ७।६६।९।