ऋग्वेद - मण्डल 2/ सूक्त 37/ मन्त्र 1
मन्द॑स्व हो॒त्रादनु॒ जोष॒मन्ध॒सोऽध्व॑र्यवः॒ स पू॒र्णां व॑ष्ट्या॒सिच॑म्। तस्मा॑ ए॒तं भ॑रत तद्व॒शो द॒दिर्हो॒त्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑॥
स्वर सहित पद पाठमन्द॑स्व । हो॒त्रात् । अनु॑ । जोष॑म् । अन्ध॑सः । अध्व॑र्यवः । सः । पू॒र्णाम् । व॒ष्टि॒ । आ॒ऽसिच॑म् । तस्मै॑ । ए॒तम् । भ॒र॒त॒ । त॒त्ऽव॒शः । द॒दिः । हो॒त्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥
स्वर रहित मन्त्र
मन्दस्व होत्रादनु जोषमन्धसोऽध्वर्यवः स पूर्णां वष्ट्यासिचम्। तस्मा एतं भरत तद्वशो ददिर्होत्रात्सोमं द्रविणोदः पिब ऋतुभिः॥
स्वर रहित पद पाठमन्दस्व। होत्रात्। अनु। जोषम्। अन्धसः। अध्वर्यवः। सः। पूर्णाम्। वष्टि। आऽसिचम्। तस्मै। एतम्। भरत। तत्ऽवशः। ददिः। होत्रात्। सोमम्। द्रविणःऽदः। पिब। ऋतुऽभिः॥
ऋग्वेद - मण्डल » 2; सूक्त » 37; मन्त्र » 1
अष्टक » 2; अध्याय » 8; वर्ग » 1; मन्त्र » 1
अष्टक » 2; अध्याय » 8; वर्ग » 1; मन्त्र » 1
विषयः - अथ विद्वद्गुणानाह।
अन्वयः - हे द्रविणोदस्त्वं होत्रादन्धसो जोषमनु मन्दस्व। यथा स विद्वान् पूर्णामासिचं वष्टि तथा हे अध्वर्यवो यूयं तस्मा एतं भरत। हे द्रविणोदस्तद्वशो ददिस्त्वमृतुभिः सह होत्रात्सोमं पिब ॥१॥
पदार्थः -
(मन्दस्व) आनन्द (होत्रात्) आदानात् (अनु) (जोषम्) प्रीतिम् (अन्धसः) अन्नस्य (अध्वर्यवः) य आत्मानमध्वरमिच्छवस्ते (सः) (पूर्णाम्) (वष्टि) कामयते (आसिचम्) समन्तात्सेचकम् (तस्मै) (एतम्) (भरत) धरत। अत्र बहुलं छन्दसीति शपः श्लुर्न (तद्वशः) तदिच्छः (ददिः) दाता (होत्रात्) दातुः (सोमम्) (द्रविणोदः) यो द्रविणो ददाति तत्सम्बुद्धौ (पिब) (तुभिः) वसन्तादिभिः ॥१॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैः परस्परेभ्यो विद्याधनधान्यादीनि दत्वा सततमानन्दितव्यम् ॥१॥
इस भाष्य को एडिट करें