ऋग्वेद - मण्डल 3/ सूक्त 26/ मन्त्र 6
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - मरूतः
छन्दः - जगती
स्वरः - निषादः
व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भामं॑ म॒रुता॒मोज॑ ईमहे। पृष॑दश्वासो अनव॒भ्ररा॑धसो॒ गन्ता॑रो य॒ज्ञं वि॒दथे॑षु॒ धीराः॑॥
स्वर सहित पद पाठव्रात॑म्ऽव्रातम् । ग॒णम्ऽग॑णम् । सु॒श॒स्तिऽभिः॑ । अ॒ग्नेः । भाम॑म् । म॒रुता॑म् । ओजः॑ । ई॒म॒हे॒ । पृष॑त्ऽअश्वासः । अ॒न॒व॒भ्रऽरा॑धसः । गन्ता॑रः । य॒ज्ञम् । वि॒दथे॑षु । धीराः॑ ॥
स्वर रहित मन्त्र
व्रातंव्रातं गणंगणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे। पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः॥
स्वर रहित पद पाठव्रातम्ऽव्रातम्। गणम्ऽगणम्। सुशस्तिऽभिः। अग्नेः। भामम्। मरुताम्। ओजः। ईमहे। पृषत्ऽअश्वासः। अनवभ्रऽराधसः। गन्तारः। यज्ञम्। विदथेषु। धीराः॥
ऋग्वेद - मण्डल » 3; सूक्त » 26; मन्त्र » 6
अष्टक » 3; अध्याय » 1; वर्ग » 27; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 27; मन्त्र » 1
विषयः - पुनस्तमेव विषयमाह।
अन्वयः - हे मनुष्या पृषदश्वासोऽनवभ्रराधसो गन्तारो वायव इव सुशस्तिभिः सह वर्त्तमाना धीरा विद्वांसो विदथेषु यज्ञमग्नेर्भामं मरुतां सकाशादोजोऽन्येषां पदार्थानां व्रातंव्रातं गणंगणं याचन्ते तथैव वयमेतत्सर्वमीमहे ॥६॥
पदार्थः -
(व्रातंव्रातम्) वर्त्तमानं वर्त्तमानम् (गणंगणम्) समूहं समूहम् (सुशस्तिभिः) शोभनाभिः स्तुतिभिः (अग्नेः) पावकात् (भामम्) तेजः (मरुताम्) वायूनां सकाशात् (ओजः) बलम् (ईमहे) (पृषदश्वासः) पृषतः सेचका अश्वा वेगादयो गुणा येषु ते (अनवभ्रराधसः) अनवभ्रमविनाशि राधो येषां ते (गन्तारः) (यज्ञम्) सङ्गतिकरणम् (विदथेषु) विज्ञानादिषु (धीराः) ध्यानवन्तः ॥६॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या अग्निवाय्वादिपदार्थेभ्यः कार्य्यसमूहं साध्नुवन्ति ते विद्वांसः सन्ति ॥६॥
इस भाष्य को एडिट करें