ऋग्वेद - मण्डल 3/ सूक्त 26/ मन्त्र 7
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तं मे॒ चक्षु॑र॒मृतं॑ म आ॒सन्। अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑॥
स्वर सहित पद पाठअ॒ग्निः । अ॒स्मि॒ । जन्म॑ना । जा॒तऽवे॑दाः । घृ॒तम् । मे॒ । चक्षुः॑ । अ॒मृत॑म् । मे॒ । आ॒सन् । अ॒र्कः । त्रि॒ऽधातुः॑ । रज॑सः । वि॒ऽमानः॑ । अज॑स्रः । घ॒र्मः । ह॒विः । अ॒स्मि॒ । नाम॑ ॥
स्वर रहित मन्त्र
अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन्। अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम॥
स्वर रहित पद पाठअग्निः। अस्मि। जन्मना। जातऽवेदाः। घृतम्। मे। चक्षुः। अमृतम्। मे। आसन्। अर्कः। त्रिऽधातुः। रजसः। विऽमानः। अजस्रः। घर्मः। हविः। अस्मि। नाम॥
ऋग्वेद - मण्डल » 3; सूक्त » 26; मन्त्र » 7
अष्टक » 3; अध्याय » 1; वर्ग » 27; मन्त्र » 2
अष्टक » 3; अध्याय » 1; वर्ग » 27; मन्त्र » 2
विषयः - पुनर्विद्युद्वन्मनुष्यैर्वर्त्तितव्यमित्युपदिश्यते।
अन्वयः - हे मनुष्या यथाग्निरिव जन्मना जातवेदा अहमस्मि मे चक्षुर्घृतं प्रदीप्तं म आसन्नमृतं भवेत्। यथा रजसो विमानो त्रिधातुरर्कोऽजस्रो घर्मो हविरस्ति तथा नामाहमस्मि ॥७॥
पदार्थः -
(अग्निः) पावक इव (अस्मि) (जन्मना) (जातवेदाः) जातवित्तः (घृतम्) प्रदीप्तम् (मे) मम (चक्षुः) चष्टे नेनेक्ति नेत्रेन्द्रियम् (अमृतम्) अमृतात्मकरसम् (मे) मम (आसन्) आस्ये (अर्कः) वज्रो विद्युद्वा। अर्क इति वज्रना०। निघं० २। २०। (त्रिधातुः) त्रयो धातवो यस्मिन्सः (रजसः) लोकसमूहस्य (विमानः) विविधं मानं यस्य सः (अजस्रः) निरन्तरं गन्ता (घर्मः) प्रदीप्तो दिवसकरः (हविः) (अस्मि) (नाम) प्रसिद्धौ ॥७॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्विद्युद्वत्कार्य्यसिद्धिधारणं रोगविनाशकाऽऽहारकरणं शत्रुनिवारणं च कर्त्तव्यं येन विद्युत्फलमापतेत् ॥७॥
इस भाष्य को एडिट करें