Loading...
ऋग्वेद मण्डल - 10 के सूक्त 120 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 120/ मन्त्र 8
    ऋषिः - बृहद्दिव आथर्वणः देवता - इन्द्र: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    इ॒मा ब्रह्म॑ बृ॒हद्दि॑वो विव॒क्तीन्द्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः । म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजो॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥

    स्वर सहित पद पाठ

    इ॒मा । ब्रह्म॑ । बृ॒हत्ऽदि॑वः । वि॒व॒क्ति॒ । इन्द्रा॑य । शू॒षम् । अ॒ग्रि॒यः । स्वः॒ऽसाः । म॒हः । गो॒त्रस्य॑ । क्ष॒य॒ति॒ । स्व॒ऽराजः॑ । दुरः॑ । च॒ । विश्वाः॑ । अ॒वृ॒णो॒त् । अप॑ । स्वाः ॥


    स्वर रहित मन्त्र

    इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषमग्रियः स्वर्षाः । महो गोत्रस्य क्षयति स्वराजो दुरश्च विश्वा अवृणोदप स्वाः ॥

    स्वर रहित पद पाठ

    इमा । ब्रह्म । बृहत्ऽदिवः । विवक्ति । इन्द्राय । शूषम् । अग्रियः । स्वःऽसाः । महः । गोत्रस्य । क्षयति । स्वऽराजः । दुरः । च । विश्वाः । अवृणोत् । अप । स्वाः ॥ १०.१२०.८

    ऋग्वेद - मण्डल » 10; सूक्त » 120; मन्त्र » 8
    अष्टक » 8; अध्याय » 7; वर्ग » 2; मन्त्र » 3

    भावार्थ - वेदविद्येचा विद्वान आपल्या सुखासाठी परमात्म्याची स्तुती प्रार्थना करतो. परमात्मा वेदज्ञानाचा स्वामी आहे व वेदज्ञान प्राप्त केल्यावर आपल्या मन इत्यादी द्वारांना तो उघडतो. ॥८॥

    इस भाष्य को एडिट करें
    Top