ऋग्वेद - मण्डल 10/ सूक्त 120/ मन्त्र 9
ऋषिः - बृहद्दिव आथर्वणः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्व१॒॑मिन्द्र॑मे॒व । स्वसा॑रो मात॒रिभ्व॑रीररि॒प्रा हि॒न्वन्ति॑ च॒ शव॑सा व॒र्धय॑न्ति च ॥
स्वर सहित पद पाठए॒व । म॒हान् । बृ॒हत्ऽदि॑वः । अथ॑र्वा । अवो॑चत् । स्वाम् । त॒न्व॑म् । इन्द्र॑म् । ए॒व । स्वसा॑रः । मा॒त॒रिभ्व॑रीः । अ॒रि॒प्राः । हि॒न्वन्ति॑ । च॒ । शव॑सा । व॒र्धय॑न्ति च ॥
स्वर रहित मन्त्र
एवा महान्बृहद्दिवो अथर्वावोचत्स्वां तन्व१मिन्द्रमेव । स्वसारो मातरिभ्वरीररिप्रा हिन्वन्ति च शवसा वर्धयन्ति च ॥
स्वर रहित पद पाठएव । महान् । बृहत्ऽदिवः । अथर्वा । अवोचत् । स्वाम् । तन्वम् । इन्द्रम् । एव । स्वसारः । मातरिभ्वरीः । अरिप्राः । हिन्वन्ति । च । शवसा । वर्धयन्ति च ॥ १०.१२०.९
ऋग्वेद - मण्डल » 10; सूक्त » 120; मन्त्र » 9
अष्टक » 8; अध्याय » 7; वर्ग » 2; मन्त्र » 4
अष्टक » 8; अध्याय » 7; वर्ग » 2; मन्त्र » 4
भावार्थ - महान विद्वान आपल्या स्तुती प्रार्थनेला जेव्हा परमात्म्याला अर्पित करतो तेव्हा निष्पाप स्तुुती परमात्म्याच्या आश्रयाने त्याला प्रभावित करते व स्तुती करणाऱ्यामध्ये परमात्म्याला साक्षात करविते. ॥९॥
इस भाष्य को एडिट करें