Loading...
ऋग्वेद मण्डल - 7 के सूक्त 85 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 85/ मन्त्र 3
    ऋषिः - वसिष्ठः देवता - इन्द्रावरुणौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    आप॑श्चि॒द्धि स्वय॑शस॒: सद॑स्सु दे॒वीरिन्द्रं॒ वरु॑णं दे॒वता॒ धुः । कृ॒ष्टीर॒न्यो धा॒रय॑ति॒ प्रवि॑क्ता वृ॒त्राण्य॒न्यो अ॑प्र॒तीनि॑ हन्ति ॥

    स्वर सहित पद पाठ

    आपः॑ । चि॒त् । हि । स्वऽय॑शसः । सदः॑ऽसु । दे॒वीः । इन्द्र॑म् । वरु॑णम् । दे॒वता॑ । धुरिति॒ धुः । कृ॒ष्टीः । अ॒न्यः । धा॒रय॑ति । प्रऽवि॑क्ताः । वृ॒त्राणि॑ । अ॒न्यः । अ॒प्र॒तीनि॑ । ह॒न्ति॒ ॥


    स्वर रहित मन्त्र

    आपश्चिद्धि स्वयशस: सदस्सु देवीरिन्द्रं वरुणं देवता धुः । कृष्टीरन्यो धारयति प्रविक्ता वृत्राण्यन्यो अप्रतीनि हन्ति ॥

    स्वर रहित पद पाठ

    आपः । चित् । हि । स्वऽयशसः । सदःऽसु । देवीः । इन्द्रम् । वरुणम् । देवता । धुरिति धुः । कृष्टीः । अन्यः । धारयति । प्रऽविक्ताः । वृत्राणि । अन्यः । अप्रतीनि । हन्ति ॥ ७.८५.३

    ऋग्वेद - मण्डल » 7; सूक्त » 85; मन्त्र » 3
    अष्टक » 5; अध्याय » 6; वर्ग » 7; मन्त्र » 3

    पदार्थः -
    भोः सेनानीः ! (हि) निश्चयेन (आपः, चित्) सर्वत्र व्याप्य (स्वयशसः) स्वकीयेन यशसा (सदःसु) उपासनीयस्थानेषु (देवीः) दिव्यशक्तिसम्पन्नं (इन्द्रम्) परमैश्वर्यवन्तं (वरुणम्) विश्वं स्वशक्त्यावस्थापयन्तं परमात्मानं (देवता) सम्प्रार्थ्य तदीयदिव्यशक्तिं (धुः) सन्धार्य (अन्यः) कश्चित् (कृष्टीः) प्रजाः (धारयति) दधाति, यः (प्रविक्ताः) भिन्नप्रकृतिकानां मनुष्याणां कर्माणि बुध्यते (अन्यः) अन्यः कश्चित् (वृत्राणि) मेघवत् नभोमण्डले प्रसृतान् (अप्रतीनि) वशीकर्तुमशक्यान् (हन्ति) हिनस्ति) ॥३॥

    इस भाष्य को एडिट करें
    Top