Loading...
ऋग्वेद मण्डल - 7 के सूक्त 85 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 85/ मन्त्र 4
    ऋषिः - वसिष्ठः देवता - इन्द्रावरुणौ छन्दः - आर्षीत्रिष्टुप् स्वरः - धैवतः

    स सु॒क्रतु॑ॠत॒चिद॑स्तु॒ होता॒ य आ॑दित्य॒ शव॑सा वां॒ नम॑स्वान् । आ॒व॒वर्त॒दव॑से वां ह॒विष्मा॒नस॒दित्स सु॑वि॒ताय॒ प्रय॑स्वान् ॥

    स्वर सहित पद पाठ

    सः । सु॒ऽक्रतुः॑ । ऋ॒त॒ऽचित् । अ॒स्तु॒ । होता॑ । यः । आ॒दि॒त्या॒ । शव॑सा । वा॒म् । नम॑स्वान् । आ॒ऽव॒वर्त॑त् । अव॑से । वा॒म् । ह॒विष्मा॑न् । अस॑त् । इत् । सः । सु॒वि॒ताय॑ । प्रय॑स्वान् ॥


    स्वर रहित मन्त्र

    स सुक्रतुॠतचिदस्तु होता य आदित्य शवसा वां नमस्वान् । आववर्तदवसे वां हविष्मानसदित्स सुविताय प्रयस्वान् ॥

    स्वर रहित पद पाठ

    सः । सुऽक्रतुः । ऋतऽचित् । अस्तु । होता । यः । आदित्या । शवसा । वाम् । नमस्वान् । आऽववर्तत् । अवसे । वाम् । हविष्मान् । असत् । इत् । सः । सुविताय । प्रयस्वान् ॥ ७.८५.४

    ऋग्वेद - मण्डल » 7; सूक्त » 85; मन्त्र » 4
    अष्टक » 5; अध्याय » 6; वर्ग » 7; मन्त्र » 4

    पदार्थः -
    (सः) स पुरुषः (सुक्रतुः) शुभकर्मकर्त्ता (ऋतचित्) तथा सत्यवादी (होता) च पुनः स एव यज्ञकर्ता (अस्तु) अस्तु=स्यात् (यः) यः पुरुषः (आदित्या) आदित्य इव तेजस्वी भूत्वा (शवसा) स्वसामर्थ्येन (वाम्) इन्द्रावरुणौ (नमस्वान्) लोकोत्तरतेजस्कौ नमस्करणीयौ मन्यते, तथा यः (वाम्) तावेव (अवसे) रक्षायै (आववर्तत्) आवर्तयेत् (हविष्मान्) यश्च हविर्भिर्युक्तो भवति (सः) स पुरुषः (इत्) निश्चयम् (प्रयस्वान्) ऐश्वर्यसम्पन्नो भूत्वा (सुविताय) शोभनफलप्राप्त्यै (असत्) भवतु ॥४॥

    इस भाष्य को एडिट करें
    Top