ऋग्वेद - मण्डल 7/ सूक्त 86/ मन्त्र 2
उ॒त स्वया॑ त॒न्वा॒३॒॑ सं व॑दे॒ तत्क॒दा न्व१॒॑न्तर्वरु॑णे भुवानि । किं मे॑ ह॒व्यमहृ॑णानो जुषेत क॒दा मृ॑ळी॒कं सु॒मना॑ अ॒भि ख्य॑म् ॥
स्वर सहित पद पाठउ॒त । स्वया॑ । त॒न्वा॑ । सम् । व॒दे॒ । तत् । क॒दा । नु । अ॒न्तः । वरु॑णे । भु॒वा॒नि॒ । किम् । मे॒ । ह॒व्यम् । अहृ॑णानः । जु॒षे॒त॒ । क॒दा । मृ॒ळी॒कम् । सु॒ऽमनाः॑ । अ॒भि । ख्य॒म् ॥
स्वर रहित मन्त्र
उत स्वया तन्वा३ सं वदे तत्कदा न्व१न्तर्वरुणे भुवानि । किं मे हव्यमहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम् ॥
स्वर रहित पद पाठउत । स्वया । तन्वा । सम् । वदे । तत् । कदा । नु । अन्तः । वरुणे । भुवानि । किम् । मे । हव्यम् । अहृणानः । जुषेत । कदा । मृळीकम् । सुऽमनाः । अभि । ख्यम् ॥ ७.८६.२
ऋग्वेद - मण्डल » 7; सूक्त » 86; मन्त्र » 2
अष्टक » 5; अध्याय » 6; वर्ग » 8; मन्त्र » 2
अष्टक » 5; अध्याय » 6; वर्ग » 8; मन्त्र » 2
विषयः - अथ परमात्मोपासनाप्रकारः कथ्यते।
पदार्थः -
(उत) किं (स्वया, तन्वा) स्वशरीरेण (सम्) सम्यक् (तत्) तेनोपास्येन सह (वदे) आलापं करवाणि (कदा) कस्मिन्काले (तु) निश्चयं (वरुणे, अन्तः) तस्य भजनीयस्य स्वरूपे (भुवानि) प्रविशानि (किम्) किमीश्वरः (मे) मम (हव्यम्) उपासनारूपमुपहारं (अहृणानः) अक्रुध्यन् (जुषेत) स्वीकुर्यात् (कदा) क्व काले (मृळीकम्) तं सर्वसुखप्रदातारं (सुमनाः) शोभनमनस्कः (अभि, ख्यम्) अभितः पश्येयम् ॥२॥