ऋग्वेद - मण्डल 7/ सूक्त 86/ मन्त्र 1
धीरा॒ त्व॑स्य महि॒ना ज॒नूंषि॒ वि यस्त॒स्तम्भ॒ रोद॑सी चिदु॒र्वी । प्र नाक॑मृ॒ष्वं नु॑नुदे बृ॒हन्तं॑ द्वि॒ता नक्ष॑त्रं प॒प्रथ॑च्च॒ भूम॑ ॥
स्वर सहित पद पाठधीरा॑ । तु । अ॒स्य॒ । म॒हि॒ना । ज॒नूंषि॑ । वि । यः । त॒स्तम्भ॑ । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । प्र । नाक॑म् । ऋ॒ष्वम् । नु॒नु॒दे॒ । बृ॒हन्त॑म् । द्वि॒ता । नक्ष॑त्रम् । प॒प्रथ॑त् । च॒ । भूम॑ ॥
स्वर रहित मन्त्र
धीरा त्वस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी । प्र नाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं पप्रथच्च भूम ॥
स्वर रहित पद पाठधीरा । तु । अस्य । महिना । जनूंषि । वि । यः । तस्तम्भ । रोदसी इति । चित् । उर्वी इति । प्र । नाकम् । ऋष्वम् । नुनुदे । बृहन्तम् । द्विता । नक्षत्रम् । पप्रथत् । च । भूम ॥ ७.८६.१
ऋग्वेद - मण्डल » 7; सूक्त » 86; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 8; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 8; मन्त्र » 1
विषयः - अथ वरुणरूपपरमात्मन उपासनया मनुष्यजन्मनः फलं निरूप्यते।
पदार्थः -
(यः) य ईश्वरः (वि) सम्यक् (उर्वी) विस्तीर्णे (रोदसी) द्यावापृथिव्यौ (चित्) निश्चयं (तस्तम्भ) स्तब्धे अकरोत्, तथा यः (बृहन्तम्) महान्ति (नक्षत्रं) नक्षत्राणि (च) पुनः (भूम) भूमिं (पप्रथत्) अररचत् तथा (नाकम्) स्वर्गं (ऋष्वम्) नरकं च (द्विता) द्विधा (नुनुदे) व्यररचत् (तु) निश्चयेन (अस्य) इमं वरुणस्वरूपं परमात्मानं (धीरा) धैर्यवन्तो जनाः (महिना) महत्त्वेन (जनूंषि) तज्जन्मना सह बुध्यन्ते ॥१॥