ऋग्वेद - मण्डल 9/ सूक्त 61/ मन्त्र 3
परि॑ णो॒ अश्व॑मश्व॒विद्गोम॑दिन्दो॒ हिर॑ण्यवत् । क्षरा॑ सह॒स्रिणी॒रिष॑: ॥
स्वर सहित पद पाठपरि॑ । नः॒ । अश्व॑म् । अ॒श्व॒ऽवित् । गोऽम॑त् । इ॒न्दो॒ इति॑ । हिर॑ण्यऽवत् । क्षरा॑ । स॒ह॒स्रिणीः । इषः॑ ॥
स्वर रहित मन्त्र
परि णो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् । क्षरा सहस्रिणीरिष: ॥
स्वर रहित पद पाठपरि । नः । अश्वम् । अश्वऽवित् । गोऽमत् । इन्दो इति । हिरण्यऽवत् । क्षरा । सहस्रिणीः । इषः ॥ ९.६१.३
ऋग्वेद - मण्डल » 9; सूक्त » 61; मन्त्र » 3
अष्टक » 7; अध्याय » 1; वर्ग » 18; मन्त्र » 3
अष्टक » 7; अध्याय » 1; वर्ग » 18; मन्त्र » 3
पदार्थः -
(इन्दो) हे कर्मयोगिन् ! (अश्ववित्) अश्वादिभिर्युतो भवान् (नः) अस्मभ्यं (परि) सर्वतः स्वकर्मद्वारेण (अश्वमत् गोमत् हिरण्यवत्) घोटकगोहिरण्यादियुतान् (सहस्रिणीः इषः) बहुविधैश्वर्यान् (क्षर) उत्पादयतु ॥३॥