ऋग्वेद - मण्डल 9/ सूक्त 61/ मन्त्र 2
पुर॑: स॒द्य इ॒त्थाधि॑ये॒ दिवो॑दासाय॒ शम्ब॑रम् । अध॒ त्यं तु॒र्वशं॒ यदु॑म् ॥
स्वर सहित पद पाठपुरः॑ । स॒द्यः । इ॒थाऽधि॑ये । दिवः॑ऽदासाय । शम्ब॑रम् । अध॑ । त्यम् । तु॒र्वश॑म् । यदु॑म् ॥
स्वर रहित मन्त्र
पुर: सद्य इत्थाधिये दिवोदासाय शम्बरम् । अध त्यं तुर्वशं यदुम् ॥
स्वर रहित पद पाठपुरः । सद्यः । इथाऽधिये । दिवःऽदासाय । शम्बरम् । अध । त्यम् । तुर्वशम् । यदुम् ॥ ९.६१.२
ऋग्वेद - मण्डल » 9; सूक्त » 61; मन्त्र » 2
अष्टक » 7; अध्याय » 1; वर्ग » 18; मन्त्र » 2
अष्टक » 7; अध्याय » 1; वर्ग » 18; मन्त्र » 2
पदार्थः -
हे कर्मयोगिन् ! यः (इत्थाधिये दिवोदासाय) सत्यधीमतस्तथा द्युलोकसम्बन्धिकर्मणि कुशलस्य भवतः (शम्बरम्) शत्रुरस्ति (त्यं तुर्वशं यदुम्) तं घातकमनुष्यम् (अध) अथ च तस्य (पुरः) पुरं ध्वंसयतु ॥२॥