Loading...
ऋग्वेद मण्डल - 9 के सूक्त 73 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 73/ मन्त्र 3
    ऋषिः - पवित्रः देवता - पवमानः सोमः छन्दः - निचृज्जगती स्वरः - निषादः

    प॒वित्र॑वन्त॒: परि॒ वाच॑मासते पि॒तैषां॑ प्र॒त्नो अ॒भि र॑क्षति व्र॒तम् । म॒हः स॑मु॒द्रं वरु॑णस्ति॒रो द॑धे॒ धीरा॒ इच्छे॑कुर्ध॒रुणे॑ष्वा॒रभ॑म् ॥

    स्वर सहित पद पाठ

    प॒वित्र॑ऽवन्तः । परि॑ । वाच॑म् । आ॒स॒ते॒ । पि॒तआ । ए॒षा॒म् । प्र॒त्नः । अ॒भि । र॒क्ष॒ति॒ । व्र॒तम् । म॒हः । स॒मु॒द्रम् । वरु॑णः । ति॒रः । द॒धे॒ । धीराः॑ । इत् । शे॒कुः॒ । ध॒रुणे॑षु । आ॒ऽरभ॑म् ॥


    स्वर रहित मन्त्र

    पवित्रवन्त: परि वाचमासते पितैषां प्रत्नो अभि रक्षति व्रतम् । महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम् ॥

    स्वर रहित पद पाठ

    पवित्रऽवन्तः । परि । वाचम् । आसते । पितआ । एषाम् । प्रत्नः । अभि । रक्षति । व्रतम् । महः । समुद्रम् । वरुणः । तिरः । दधे । धीराः । इत् । शेकुः । धरुणेषु । आऽरभम् ॥ ९.७३.३

    ऋग्वेद - मण्डल » 9; सूक्त » 73; मन्त्र » 3
    अष्टक » 7; अध्याय » 2; वर्ग » 29; मन्त्र » 3

    पदार्थः -
    (पवित्रवन्तः) पुण्यकर्माणः कर्मयोगिनः (परिवाचम्) वेदवाचं (आसते) आश्रयन्ति (एषाम्) अमीषां कर्मयोगिनां (प्रत्नः) प्राचीनः (पिता) परमात्मा (व्रतम्) एषां सद्व्रतं (अभिरक्षति) रक्षति। अथ च तदभिमुखं (महः समुद्रम्) महान्तं संसारसागरमिमं (वरुणम्) वरुणरूपेण स्वतरङ्गेषु निमज्जयितुमुद्यतं (तिरः दधे) परमात्मा तिरस्करोति। तथा (धरुणेषु) कर्मयोगज्ञानयोगादिसाधनेषु (आरभम्) आरम्भं कर्तुं (धीराः) धीराः पुरुषाः (इत्) एव (शेकुः) समर्था भवन्ति, नान्ये ॥३॥

    इस भाष्य को एडिट करें
    Top