Loading...
ऋग्वेद मण्डल - 9 के सूक्त 73 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 73/ मन्त्र 4
    ऋषिः - पवित्रः देवता - पवमानः सोमः छन्दः - निचृज्जगती स्वरः - निषादः

    स॒हस्र॑धा॒रेऽव॒ ते सम॑स्वरन्दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चत॑: । अस्य॒ स्पशो॒ न नि मि॑षन्ति॒ भूर्ण॑यः प॒देप॑दे पा॒शिन॑: सन्ति॒ सेत॑वः ॥

    स्वर सहित पद पाठ

    स॒हस्र॑ऽधारे । अव॑ । ते । सम् । अ॒स॒र॒न् । दि॒वः । नाके॑ । मधु॑ऽझ्वाः । अ॒स॒श्चतः॑ । अस्य॑ । स्पशः॑ । न । नि । मि॒ष॒न्ति॒ । भूर्ण॑यः । प॒देऽप॑दे । पा॒शिनः॑ । स॒न्ति॒ सेत॑वः ॥


    स्वर रहित मन्त्र

    सहस्रधारेऽव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चत: । अस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिन: सन्ति सेतवः ॥

    स्वर रहित पद पाठ

    सहस्रऽधारे । अव । ते । सम् । असरन् । दिवः । नाके । मधुऽझ्वाः । असश्चतः । अस्य । स्पशः । न । नि । मिषन्ति । भूर्णयः । पदेऽपदे । पाशिनः । सन्ति सेतवः ॥ ९.७३.४

    ऋग्वेद - मण्डल » 9; सूक्त » 73; मन्त्र » 4
    अष्टक » 7; अध्याय » 2; वर्ग » 29; मन्त्र » 4

    पदार्थः -
    हे जगन्नियन्तः परमेश्वर ! (ते) तव (सेतवः) मर्यादारूपाः सेतवः (पदेपदे सन्ति) स्थाने स्थाने विद्यन्ते। अथ च ते मर्यादासेतवः (पाशिनः) पापिभ्यो दण्डदातारः। तथा (भूर्णयः) क्षिप्रकारिणस्सन्ति। अथ च (न निमिषन्ति) तदवमानं कृत्वा न कोऽपि स्थातुं शक्नोति। (अस्य) अमुष्य परमात्मनः (स्पशः) सारभूतानि (असश्चतः) अनन्तानि ज्योतींषि सन्ति। हे परमात्मन्   ! भवान् (सहस्रधारे) अनन्तानन्दस्वरूपे (अव) मम रक्षां करोतु। तथा (दिवः नाके) द्युलोकमध्ये (समस्वरन्) ये स्यन्दमाना भवदानन्दाः (मधुजिह्वा) ये आह्लादनीयास्ते मां प्राप्नुवन्तु ॥४॥

    इस भाष्य को एडिट करें
    Top