ऋग्वेद - मण्डल 9/ सूक्त 73/ मन्त्र 7
स॒हस्र॑धारे॒ वित॑ते प॒वित्र॒ आ वाचं॑ पुनन्ति क॒वयो॑ मनी॒षिण॑: । रु॒द्रास॑ एषामिषि॒रासो॑ अ॒द्रुह॒: स्पश॒: स्वञ्च॑: सु॒दृशो॑ नृ॒चक्ष॑सः ॥
स्वर सहित पद पाठस॒हस्र॑ऽधारे । विऽत॑ते । प॒वित्रे॑ । आ । वाच॑म् । पु॒न॒न्ति॒ । क॒वयः॑ । म॒नी॒षिणः॑ । रु॒द्रासः॑ । ए॒षा॒म् । इ॒षि॒रासः॑ । अ॒द्रुहः॑ । स्पशः॑ । सु॒ऽअञ्चः॑ । सु॒ऽदृशः॑ । नृ॒ऽचक्ष॑सः ॥
स्वर रहित मन्त्र
सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिण: । रुद्रास एषामिषिरासो अद्रुह: स्पश: स्वञ्च: सुदृशो नृचक्षसः ॥
स्वर रहित पद पाठसहस्रऽधारे । विऽतते । पवित्रे । आ । वाचम् । पुनन्ति । कवयः । मनीषिणः । रुद्रासः । एषाम् । इषिरासः । अद्रुहः । स्पशः । सुऽअञ्चः । सुऽदृशः । नृऽचक्षसः ॥ ९.७३.७
ऋग्वेद - मण्डल » 9; सूक्त » 73; मन्त्र » 7
अष्टक » 7; अध्याय » 2; वर्ग » 30; मन्त्र » 2
अष्टक » 7; अध्याय » 2; वर्ग » 30; मन्त्र » 2
पदार्थः -
(नृचक्षसः) कर्मयोगी तथा (सुदृशः) ज्ञानयोगी (स्वञ्चः) गतिशीलस्तथा (स्पशः) मेधावान् (अद्रुहः) अद्रोग्धा (इषिरासः) गमनशीलः (रुद्रासः) परमात्मनो न्यायपालनाय रुद्ररूपो भवति। (एषाम्) ज्ञानयोगिकर्मयोगिनां सदैव परमात्मा रक्षको भवति। अथ च ते (सहस्रधारे वितते) अत्यन्तानन्दमये विस्तृते (पवित्रे) पूते परमात्मनि (वाचम् आ पुनन्ति) स्वीयवाचं तस्योपासनया पवित्रयन्ति। पूर्वोक्ता विद्वांस एव (मनीषिणः) मनस्विनस्तथा (कवयः) क्रान्तदर्शिनो भवन्ति ॥७॥