ऋग्वेद - मण्डल 9/ सूक्त 73/ मन्त्र 6
प्र॒त्नान्माना॒दध्या ये स॒मस्व॑र॒ञ्छ्लोक॑यन्त्रासो रभ॒सस्य॒ मन्त॑वः । अपा॑न॒क्षासो॑ बधि॒रा अ॑हासत ऋ॒तस्य॒ पन्थां॒ न त॑रन्ति दु॒ष्कृत॑: ॥
स्वर सहित पद पाठप्र॒त्नात् । माना॑त् । अधि॑ । आ । ये । स॒म्ऽअस्व॑रन् । श्लोक॑ऽयन्त्रासः । र॒भ॒सस्य॑ । मन्त॑वः । अप॑ । अ॒न॒क्षासः॑ । ब॒धि॒राः । अ॒हा॒स॒त॒ । ऋ॒तस्य॑ । पन्था॑म् । न । त॒र॒न्ति॒ । दुः॒ऽकृतः॑ ॥
स्वर रहित मन्त्र
प्रत्नान्मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवः । अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृत: ॥
स्वर रहित पद पाठप्रत्नात् । मानात् । अधि । आ । ये । सम्ऽअस्वरन् । श्लोकऽयन्त्रासः । रभसस्य । मन्तवः । अप । अनक्षासः । बधिराः । अहासत । ऋतस्य । पन्थाम् । न । तरन्ति । दुःऽकृतः ॥ ९.७३.६
ऋग्वेद - मण्डल » 9; सूक्त » 73; मन्त्र » 6
अष्टक » 7; अध्याय » 2; वर्ग » 30; मन्त्र » 1
अष्टक » 7; अध्याय » 2; वर्ग » 30; मन्त्र » 1
पदार्थः -
(अनक्षासः) अज्ञानिनो जनाः (बधिराः) ये हितमप्युपदेशं न शृण्वन्ति ते (ऋतस्य) सत्यस्य (पन्थाम्) मार्गं (अपाहासत) उज्झन्ति। (दुष्कृतः) ते दुष्टाचारिणोऽस्य भवसागरस्योर्मिं (न तरन्ति) तरितुं न शक्नुवन्ति। अथ च (ये) ये नराः (प्रत्नान्मानात्) प्राचीनादाप्तपुरुषात् (अध्या) आगतान् उपदेशान् (समस्वरन्) पालयन्तः (श्लोकयन्त्रासः) सज्जनैः सङ्गतास्सन्ति तथा (रभसस्य मन्तवः) परमात्माज्ञापालकास्तेऽस्य भवसागरस्योर्मिं तरन्ति ॥६॥