Loading...
ऋग्वेद मण्डल - 9 के सूक्त 75 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 75/ मन्त्र 5
    ऋषिः - कविः देवता - पवमानः सोमः छन्दः - विराड्जगती स्वरः - निषादः

    परि॑ सोम॒ प्र ध॑न्वा स्व॒स्तये॒ नृभि॑: पुना॒नो अ॒भि वा॑सया॒शिर॑म् । ये ते॒ मदा॑ आह॒नसो॒ विहा॑यस॒स्तेभि॒रिन्द्रं॑ चोदय॒ दात॑वे म॒घम् ॥

    स्वर सहित पद पाठ

    परि॑ । सो॒म॒ । प्र । ध॒न्व॒ । स्व॒स्तये॑ । नृऽभिः॑ । पु॒ना॒नः । अ॒भि । वा॒स॒य॒ । आ॒ऽशिर॑म् । ये । ते॒ । मदाः॑ । आ॒ह॒नसः॑ । विऽहा॑यसः । तेभिः॑ । इन्द्र॑म् । चो॒द॒य॒ । दात॑वे । म॒घम् ॥


    स्वर रहित मन्त्र

    परि सोम प्र धन्वा स्वस्तये नृभि: पुनानो अभि वासयाशिरम् । ये ते मदा आहनसो विहायसस्तेभिरिन्द्रं चोदय दातवे मघम् ॥

    स्वर रहित पद पाठ

    परि । सोम । प्र । धन्व । स्वस्तये । नृऽभिः । पुनानः । अभि । वासय । आऽशिरम् । ये । ते । मदाः । आहनसः । विऽहायसः । तेभिः । इन्द्रम् । चोदय । दातवे । मघम् ॥ ९.७५.५

    ऋग्वेद - मण्डल » 9; सूक्त » 75; मन्त्र » 5
    अष्टक » 7; अध्याय » 2; वर्ग » 33; मन्त्र » 5

    पदार्थः -
    हे परमात्मन् ! (ये ते मदा आहनसः) ये तव स्वभावा वाणीवोपदिशन्ति (तेभिः) तैः (विहायसाः) अस्मानाच्छादय। अथ च (इन्द्रम्) कर्मयोगिनं (मघं दातवे) ऐश्वर्यदानाय (चोदय) प्रेरय। (सोम) हे जगदीश ! (नृभिः) उपदेशकैः (परिपुनानः) अस्मान् पवित्रयन् (स्वस्तये) सत्कल्याणाय (प्रधन्व) प्राप्तो भव। तथा  (आशिरम्) अस्मदाश्रयं (अभिवासय) अभितो रक्षय ॥५॥ इति श्रीमदार्यमुनिनोपनिबद्धे ऋक्संहिताभाष्ये सप्तमाष्टके द्वितीयोऽध्यायः समाप्तः ॥

    इस भाष्य को एडिट करें
    Top