Loading...
ऋग्वेद मण्डल - 9 के सूक्त 76 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 76/ मन्त्र 1
    ऋषिः - कविः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    ध॒र्ता दि॒वः प॑वते॒ कृत्व्यो॒ रसो॒ दक्षो॑ दे॒वाना॑मनु॒माद्यो॒ नृभि॑: । हरि॑: सृजा॒नो अत्यो॒ न सत्व॑भि॒र्वृथा॒ पाजां॑सि कृणुते न॒दीष्वा ॥

    स्वर सहित पद पाठ

    ध॒र्ता । दि॒वः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । दक्षः॑ । दे॒वाना॑म् । अ॒नु॒ऽमाद्यः॑ । नृऽभिः॑ । हरिः॑ । सृ॒जा॒नः । अत्यः॑ । न । सत्व॑ऽभिः । वृथा॑ । पाजां॑सि । कृ॒णु॒ते॒ । न॒दीषु॑ । आ ॥


    स्वर रहित मन्त्र

    धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभि: । हरि: सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुते नदीष्वा ॥

    स्वर रहित पद पाठ

    धर्ता । दिवः । पवते । कृत्व्यः । रसः । दक्षः । देवानाम् । अनुऽमाद्यः । नृऽभिः । हरिः । सृजानः । अत्यः । न । सत्वऽभिः । वृथा । पाजांसि । कृणुते । नदीषु । आ ॥ ९.७६.१

    ऋग्वेद - मण्डल » 9; सूक्त » 76; मन्त्र » 1
    अष्टक » 7; अध्याय » 3; वर्ग » 1; मन्त्र » 1

    पदार्थः -
    (दिवः) द्युलोकस्य (धर्ता) धारको जगदीश्वरः (पवते) मां पवित्रयतु। (नृभिः) सर्वैरपि जनैः (कृत्व्यः) उपासनीयः। अथ च परमेश्वरः (रसः) आनन्दस्वरूपस्तथा (दक्षः) सर्वज्ञः (देवानामनुमाद्यः) विदुषामाह्लादकः (हरिः) पापहारकः परमात्मा (सृजानः) सर्वं सृजन् (अत्यो न) विद्युदिव (वृथा) अनायासेनैव (सत्त्वभिः) प्राणिभिः (पाजांसि) बलानि (कृणुते) करोति। अथ च पूर्वोक्तः परमेश्वरः (नदीषु) प्रकृतेः सर्वासु शक्तिषु (आ) व्याप्नोति। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥१॥

    इस भाष्य को एडिट करें
    Top