Loading...
ऋग्वेद मण्डल - 9 के सूक्त 82 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 82/ मन्त्र 1
    ऋषिः - वसुर्भारद्वाजः देवता - पवमानः सोमः छन्दः - विराड्जगती स्वरः - निषादः

    असा॑वि॒ सोमो॑ अरु॒षो वृषा॒ हरी॒ राजे॑व द॒स्मो अ॒भि गा अ॑चिक्रदत् । पु॒ना॒नो वारं॒ पर्ये॑त्य॒व्ययं॑ श्ये॒नो न योनिं॑ घृ॒तव॑न्तमा॒सद॑म् ॥

    स्वर सहित पद पाठ

    असा॑वि । सोमः॑ । अ॒रु॒षः । वृषा॑ । हरिः॑ । राजाऽइ॑व । द॒स्मः । अ॒भि । गाः । अ॒चि॒क्र॒द॒त् । पु॒ना॒नः । वार॑म् । परि॑ । ए॒ति॒ । अ॒व्यय॑म् । श्ये॒नः । न । योनि॑म् । घृ॒तऽव॑न्तम् । आ॒ऽसद॑म् ॥


    स्वर रहित मन्त्र

    असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदम् ॥

    स्वर रहित पद पाठ

    असावि । सोमः । अरुषः । वृषा । हरिः । राजाऽइव । दस्मः । अभि । गाः । अचिक्रदत् । पुनानः । वारम् । परि । एति । अव्ययम् । श्येनः । न । योनिम् । घृतऽवन्तम् । आऽसदम् ॥ ९.८२.१

    ऋग्वेद - मण्डल » 9; सूक्त » 82; मन्त्र » 1
    अष्टक » 7; अध्याय » 3; वर्ग » 7; मन्त्र » 1

    पदार्थः -
    (सोमः) यः सर्वोत्पादकः परमात्मा (अरुषः) प्रकाशस्वरूपः (वृषा) सद्गुणानां वृष्टिकर्ता (हरिः) पापनाशकश्चाऽस्ति। स (राजेव) राजतुल्यः (दस्मः) दुःखानां दुष्टानाञ्चोपक्षेता अस्ति। स च (गाः) लोकलोकान्तराणाञ्चतुर्दिक्षु (अभि अचिक्रदत्) शब्दायमानो भवति। स (वारम्) वरणीयपुरुषं यो (अव्ययम्) दृढभक्तोऽस्ति तं (पुनानः) पवित्रयन् (पर्य्येति) प्राप्नोति (न) येन प्रकारेण (श्येनः) विद्युत् (घृतवन्तम्) स्नेहवन्तं (आसदम्) स्थानानां (योनिम्) समाश्चित्यं प्राप्नोति। एवमुक्तगुणयुक्तः परमात्मा (असावि) निर्म्ममे ॥१॥

    इस भाष्य को एडिट करें
    Top