Loading...
अथर्ववेद > काण्ड 2 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 1
    सूक्त - भृग्वङ्गिराः देवता - द्यावापृथिवी, ब्रह्म, निर्ऋतिः छन्दः - त्रिष्टुप् सूक्तम् - पाशमोचन सूक्त

    क्षे॑त्रि॒यात्त्वा॒ निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥

    स्वर सहित पद पाठ

    क्षे॒त्रि॒यात् । त्वा॒ । नि:ऽऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह:। मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.१॥


    स्वर रहित मन्त्र

    क्षेत्रियात्त्वा निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥

    स्वर रहित पद पाठ

    क्षेत्रियात् । त्वा । नि:ऽऋत्या: । जामिऽशंसात् । द्रुह:। मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.१॥

    अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 1

    टिप्पणीः - १–क्षेत्रियात्। अ० २।८।१। देहे वंशे वा जाताद् रोगाद् दोषाद्वा। निर्ऋत्याः। अ० १।३१।२। निर्ऋतिर्निरमणादृच्छतेः कृच्छ्रापत्तिः–निरु० २।७। कृच्छ्रापत्तेः सकाशात्। जामिशंसात्। (जामिः) इति व्याख्यातम्–अ० २।७।२। जम भक्षणे–इञ्। जाम्यतिरेक नाम बालिशस्य वासमानजातीयस्य वा–निरु० ४।२०। शंसु हिंसास्तुत्योः–अप्रत्ययः। भक्षणशीलस्य। बालिशस्य मूर्खस्य शंसनाद् हिंसनात्। द्रुहः। द्रुहम् अनिष्टचिन्तने–क्विप्। अनिष्टचिन्तनात्। मुञ्चामि। मोचयामि। वरुणस्य। अ० १।३।३। वृञ् वरणे उनन्। दुष्टानामावरकस्य न्यायाधीशस्य। पाशात्। पश्यते बध्यतेऽनेन। पश बन्धे बाधे च–घञ्। शस्त्रभेदात्। दण्डबन्धात्। अनागसम्। इण आगोऽपराधे च। उ० ४।११२। इति इण् गतौ–असुन्, आगादेशः। अपराधरहितम्। निर्दोषम्। ब्रह्मणा। अ० १।८।४। वेदज्ञानेन। शिवे। अ० २।६।३। कल्याणकारिण्यौ। द्यावापृथिवी। अ० २।१।४। ईदूदेद्द्विवचनं प्रगृह्यम्। पा० १।१।११। इति सन्ध्यभावः। आकाशपृथिवीस्थपदार्थाः। स्ताम्। भवताम् ॥

    इस भाष्य को एडिट करें
    Top