अथर्ववेद - काण्ड 2/ सूक्त 11/ मन्त्र 5
सूक्त - शुक्रः
देवता - कृत्यादूषणम्
छन्दः - त्रिपदापरोष्णिक्
सूक्तम् - श्रेयः प्राप्ति सूक्त
शु॒क्रोऽसि॑ भ्रा॒जोऽसि॒ स्व॑रसि॒ ज्योति॑रसि। आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥
स्वर सहित पद पाठशु॒क्र: । अ॒सि॒ । भ्रा॒ज: । अ॒सि॒ । स्व᳡: । अ॒सि॒ । ज्योति॑: । अ॒सि॒ । आ॒प्नु॒हि । श्रेयां॑सम् । अति॑ । स॒मम् । क्रा॒म॒ ॥११.५॥
स्वर रहित मन्त्र
शुक्रोऽसि भ्राजोऽसि स्वरसि ज्योतिरसि। आप्नुहि श्रेयांसमति समं क्राम ॥
स्वर रहित पद पाठशुक्र: । असि । भ्राज: । असि । स्व: । असि । ज्योति: । असि । आप्नुहि । श्रेयांसम् । अति । समम् । क्राम ॥११.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 11; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५–शुक्रः। ऋज्रेन्द्राग्रवज्र०। उ० २।२८। इति शुच दीप्तौ–रन्। शुक्रम्=पुंस्त्वम्। वीर्यम्। तेजः। उदकम्–निघ० १।१२। ततः। अर्शआदिभ्योऽच्। पा० ५।२।१२७। इति अच्। यद्वा। शुच–क्विप्। रो मत्वर्थीयः। वीर्यवान्। कान्तिमान्। भ्राजः। टुभ्राजृ दीप्तौ–अच्। दीप्यमानः। तेजस्वी। स्वर्। अ० २।५।२। सु+ऋ गतौ, यद्वा, स्वृ शब्दोपतापयोः–विच्। सुगमनः। शत्रूपतापकः। स्वर्गः। सुखप्रदः। ज्योतिः। अ० १।९।१। द्युत दीप्तौ–इसिन्। दस्य जः। तेजः। प्रकाशः ॥
इस भाष्य को एडिट करें