अथर्ववेद - काण्ड 20/ सूक्त 69/ मन्त्र 4
त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः। इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥
स्वर सहित पद पाठत्वम् । सु॒तस्य॑ । पी॒तये॑ । स॒द्य: । वृ॒द्ध: । अ॒जा॒य॒था॒: ॥ इन्द्र॑ । ज्यैष्ठ्या॑य । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥६९.४॥
स्वर रहित मन्त्र
त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः। इन्द्र ज्यैष्ठ्याय सुक्रतो ॥
स्वर रहित पद पाठत्वम् । सुतस्य । पीतये । सद्य: । वृद्ध: । अजायथा: ॥ इन्द्र । ज्यैष्ठ्याय । सुक्रतो इति सुऽक्रतो ॥६९.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 69; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(त्वम्) (सुतस्य) निष्पादितस्य तत्त्वरसस्य (पीतये) पानाय। ग्रहणाय (सद्यः) शीघ्रम् (वृद्धः) वृद्धियुक्तः पण्डितः (अजायथाः) प्रसिद्धोऽभवः (इन्द्र) महाप्रतापिन् मनुष्य (ज्यैष्ठ्याय) गुणवचनब्राह्मणादिभ्यः कर्मणि च। पा० ।१।१२४। ज्येष्ठ-ष्यञ्। प्रधानत्वप्राप्तये (सुक्रतो) श्रेष्ठकर्मबुद्धियुक्त ॥
इस भाष्य को एडिट करें