अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 2
शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठशिप्रि॑न् । वा॒जा॒ना॒म् । प॒ते॒ । शची॑ऽव: । तव॑ । दं॒सना॑ । आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.२॥
स्वर रहित मन्त्र
शिप्रिन्वाजानां पते शचीवस्तव दंसना। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठशिप्रिन् । वाजानाम् । पते । शचीऽव: । तव । दंसना । आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(शिप्रिन्) अ० २०।४।१। हे बहुज्ञानिन्। हे दृढहनुयुक्त। हे दृढाङ्ग (वाजानाम्) अन्नानाम् (पते) स्वामिन् (शचीवः) अ० २०।२१।३। हे प्रशस्तकर्मन् (तव) (दंसना) ण्यासश्रन्थो युच्। पा० ३।३।१०७। दसि दर्शनसंदशनयोर्भाषायां च-णिचि युच्, टाप्। दर्शनीयक्रिया वर्तते। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें