Loading...
अथर्ववेद > काण्ड 3 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 10
    सूक्त - वसिष्ठ देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - शान्ति सूक्त

    ये पर्व॑ताः॒ सोम॑पृष्ठा॒ आप॑ उत्तान॒शीव॑रीः। वातः॑ प॒र्जन्य॒ आद॒ग्निस्ते क्र॒व्याद॑मशीशमन् ॥

    स्वर सहित पद पाठ

    ये । पर्व॑ता: । सोम॑ऽपृष्ठा: । आप॑: । उ॒त्ता॒न॒ऽशीव॑री: । वात॑: । प॒र्जन्य॑: । आत् । अ॒ग्नि: । ते । क्र॒व्य॒ऽअद॑म् । अ॒शी॒श॒म॒न् ॥२१.१०॥


    स्वर रहित मन्त्र

    ये पर्वताः सोमपृष्ठा आप उत्तानशीवरीः। वातः पर्जन्य आदग्निस्ते क्रव्यादमशीशमन् ॥

    स्वर रहित पद पाठ

    ये । पर्वता: । सोमऽपृष्ठा: । आप: । उत्तानऽशीवरी: । वात: । पर्जन्य: । आत् । अग्नि: । ते । क्रव्यऽअदम् । अशीशमन् ॥२१.१०॥

    अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 10

    टिप्पणीः - १०−(पर्वताः) पर्व पूर्त्तौ-अतच्। शैलाः। (सोमपृष्ठाः) सोमः, अमृतम् ओषधिर्जलं वा पृष्ठे उपरिभागे येषां ते तथाभूताः। (आपः) जलानि। (उत्तानशीवरीः) उत्+तनु विस्तारे-घञ्। अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति शीङः क्वनिप्। वनो र च। पा० ४।१।७। इति ङीब्रेफौ। वा छन्दसि। पा० ६।१।१०६। इति जसि पूर्व सवर्णदीर्घः। ऊर्ध्वमुखशयाः। सूर्याभिमुखवर्त्तमानाः। (वातः) वायुः। (पर्जन्यः)। सेचको मेघः। (आत्) अपि च। (अग्निः) पावकः। (क्रव्यादम्) मांसभक्षकं रोगम्। (अशीशमन्) शमु णिच्, लुङि। शान्तं कृतवन्तः ॥

    इस भाष्य को एडिट करें
    Top