अथर्ववेद - काण्ड 5/ सूक्त 25/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - योनिः, गर्भः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भाधान सूक्त
पर्व॑ताद्दि॒वो योने॒रङ्गा॑दङ्गात्स॒माभृ॑तम्। शेपो॒ गर्भ॑स्य रेतो॒धाः सरौ॑ प॒र्णमि॒वा द॑धत् ॥
स्वर सहित पद पाठपर्व॑तात् । दि॒व: । योने॑: । अङ्गा॑त्ऽअङ्गात् । स॒म्ऽआभृ॑तम् । शेप॑: । गर्भ॑स्य । रे॒त॒:ऽधा । सरौ॑ । प॒र्णम्ऽइ॑व । आ । द॒ध॒त् ॥२५.१॥
स्वर रहित मन्त्र
पर्वताद्दिवो योनेरङ्गादङ्गात्समाभृतम्। शेपो गर्भस्य रेतोधाः सरौ पर्णमिवा दधत् ॥
स्वर रहित पद पाठपर्वतात् । दिव: । योने: । अङ्गात्ऽअङ्गात् । सम्ऽआभृतम् । शेप: । गर्भस्य । रेत:ऽधा । सरौ । पर्णम्ऽइव । आ । दधत् ॥२५.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 25; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(पर्वतात्) अ० ४।९।१। शैलात्। तत्रस्थौषधिसमूहात् (दिवः) आकाशस्य (योनेः) गर्भाशयात्। आकाशस्थवायुजलप्रकाशादिप्रभावात् (अङ्गादङ्गात्) सर्वस्मात् स्वशरीराङ्गात् (समाभृतम्) संगृहीतम् (शेपः) अ० ४।३७।७। प्रजननसामर्थ्यम् (गर्भस्य) अ० ३।१०।१२। गरणीयस्य स्तुत्यस्य सन्तानस्य (रेतोधाः) रेतस्+डुधाञ् धारणपोषणयोः−असुन्। वीर्यस्य पराक्रमस्य धारकः (सरौ) शॄस्वृस्निहि०। उ० १।१०। इति सृ गतौ−उन्। शरौ। शरे (पर्णम्) पक्षम् (इव) यथा (आ) समन्तात् (दधत्) लेटि रूपम्। धरेत् ॥
इस भाष्य को एडिट करें