अथर्ववेद - काण्ड 5/ सूक्त 27/ मन्त्र 11
सूक्त - ब्रह्मा
देवता - इळा, सरस्वती, भारती
छन्दः - षट्पदानुष्टुब्गर्भा परातिजगती
सूक्तम् - अग्नि सूक्त
वन॑स्प॒तेऽव॑ सृजा॒ ररा॑णः। त्मना॑ दे॒वेभ्यो॑ अ॒ग्निर्ह॒व्यं श॑मि॒ता स्व॑दयतु ॥
स्वर सहित पद पाठवन॑स्पते । अव॑ । सृ॒ज॒ । ररा॑ण: । त्मना॑ । दे॒वेभ्य॑: । अ॒ग्नि: । ह॒व्यम् । श॒मि॒ता । स्व॒द॒य॒तु॒ ॥२७.११॥
स्वर रहित मन्त्र
वनस्पतेऽव सृजा रराणः। त्मना देवेभ्यो अग्निर्हव्यं शमिता स्वदयतु ॥
स्वर रहित पद पाठवनस्पते । अव । सृज । रराण: । त्मना । देवेभ्य: । अग्नि: । हव्यम् । शमिता । स्वदयतु ॥२७.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 27; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(वनस्पते) वनस्य सम्भजनीयस्य शास्त्रस्य पालकः−इति दयानन्दभाष्ये, यजु० २७।२१। (अव सृज) दानं कुरु (रराणः) रा दाने−कानच्। रराणो रातिरभ्यस्तः−निरु० २।१२। ददानः (त्मना) अ० ५।१२।१०। आत्मना। आत्मबलेन (देवेभ्यः) विद्वद्भ्यः (अग्निः) विद्वान् (हव्यम्) ग्राह्यं पदार्थम् (शमिता) अ० ५।१२।१०। शान्तीकरः (स्वदयतु) स्वादु करोतु ॥
इस भाष्य को एडिट करें