Loading...
अथर्ववेद > काण्ड 6 > सूक्त 105

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 105/ मन्त्र 1
    सूक्त - उन्मोचन देवता - कासा छन्दः - अनुष्टुप् सूक्तम् - कासशमन सूक्त

    यथा॒ मनो॑ मनस्के॒तैः प॑रा॒पत॑त्याशु॒मत्। ए॒वा त्वं का॑से॒ प्र प॑त॒ मन॒सोऽनु॑ प्रवा॒य्यम् ॥

    स्वर सहित पद पाठ

    यथा॑ । मन॑: । म॒न॒:ऽके॒तै: । प॒रा॒ऽपत॑ति । आ॒शु॒ऽमत् । ए॒व । त्वम् । का॒से॒ । प्र । प॒त॒ । मन॑स: । अनु॑ । प्र॒ऽवा॒य्य᳡म् ॥१०५.१॥


    स्वर रहित मन्त्र

    यथा मनो मनस्केतैः परापतत्याशुमत्। एवा त्वं कासे प्र पत मनसोऽनु प्रवाय्यम् ॥

    स्वर रहित पद पाठ

    यथा । मन: । मन:ऽकेतै: । पराऽपतति । आशुऽमत् । एव । त्वम् । कासे । प्र । पत । मनस: । अनु । प्रऽवाय्यम् ॥१०५.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 105; मन्त्र » 1

    टिप्पणीः - १−(यथा) येन प्रकारेण (मनः) मननसाधकमिन्द्रियम् (मनस्केतैः) कित ज्ञाने−घञ्। अन्तःकरणस्य ज्ञायमानैर्विषयैः सह (परापतति) आभिमुख्येन गच्छति (आशुमत्) यथा तथा। शीघ्रम् (एव) एवम् (त्वम्) हे मनुष्य त्वम् (कासे) कस गतौ−घञ्। ज्ञाने। उपाये (मनसः) अन्तःकरणस्य (अनु) अनुलक्ष्य (प्रवाय्यम्) भय्यप्रवय्ये च च्छन्दसि। पा० ६।१।८३। इति प्र+वा गतौ−यत्, अयादेशश्च, छान्दसो दीर्घः। प्रवय्यं प्रगन्तव्यं देशम्। अवधिम् ॥

    इस भाष्य को एडिट करें
    Top