Loading...
अथर्ववेद > काण्ड 6 > सूक्त 120

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 120/ मन्त्र 3
    सूक्त - कौशिक देवता - अन्तरिक्षम्, पृथिवी, द्यौः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - सुकृतलोक सूक्त

    यत्रा॑ सु॒हार्दः॑ सु॒कृतो॒ मद॑न्ति वि॒हाय॒ रोगं॑ त॒न्वः स्वायाः॑। अश्लो॑णा॒ अङ्गै॒रह्रु॑ताः स्व॒र्गे तत्र॑ पश्येम पि॒तरौ॑ च पु॒त्रान् ॥

    स्वर सहित पद पाठ

    यत्र॑ । सु॒ऽहार्द॑: । सु॒ऽकृत॑: । मद॑न्ति । वि॒ऽहाय॑ । रोग॑म् । त॒न्व᳡: । स्वाया॑: । अश्लो॑णा: । अङ्गै॑: । अह्रु॑ता: । स्व॒:ऽगे । तत्र॑ । प॒श्ये॒म॒ । पि॒तरौ॑ । च॒ । पु॒त्रान्॥१२०.३॥


    स्वर रहित मन्त्र

    यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः। अश्लोणा अङ्गैरह्रुताः स्वर्गे तत्र पश्येम पितरौ च पुत्रान् ॥

    स्वर रहित पद पाठ

    यत्र । सुऽहार्द: । सुऽकृत: । मदन्ति । विऽहाय । रोगम् । तन्व: । स्वाया: । अश्लोणा: । अङ्गै: । अह्रुता: । स्व:ऽगे । तत्र । पश्येम । पितरौ । च । पुत्रान्॥१२०.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 120; मन्त्र » 3

    टिप्पणीः - ३−(यत्र) यस्मिन् गृहे (सुहार्दः) अ० ३।२८।५। सुहृदयाः। अनुकूलकारिणः (सुकृतः) पुण्यकर्माणः (मदन्ति) हर्षन्ति (विहाय) परित्यज्य (रोगम्) व्याधिम् (तन्वः) शरीरस्य (स्वायाः) स्वकीयायाः (अश्लोणाः) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। इति श्रु श्रवणे गतौ च−न, यद्वा। श्रोण संघाते−अच्, रस्य लत्वम्, यद्वा श्लोण संघाते−अच्। अश्रोणाः। अपङ्गवः (अङ्गैः) शरीरावयवैः (अह्रुताः) अकुटिलगतयः (स्वर्गे) सुखविशेषे (पश्येम) साक्षात्कुर्य्याम (पितरौ) मातरं पितरं च। (च) (पुत्रान्) सुतान् ॥

    इस भाष्य को एडिट करें
    Top