Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 43/ मन्त्र 1
सूक्त - भृग्वङ्गिरा
देवता - मन्युशमनम्
छन्दः - अनुष्टुप्
सूक्तम् - मन्युशमन सूक्त
अ॒यं द॒र्भो विम॑न्युकः॒ स्वाय॒ चार॑णाय च। म॒न्योर्वि॑मन्युकस्या॒यं म॑न्यु॒शम॑न उच्यते ॥
स्वर सहित पद पाठअ॒यम् । द॒र्भ: । विऽम॑न्युक:। स्वाय॑ । च॒ । अर॑णाय । च॒ । म॒न्यो: । विऽम॑न्युकस्य । अ॒यम् । म॒न्यु॒ऽशम॑न: । उ॒च्य॒ते॒ ॥४३.१॥
स्वर रहित मन्त्र
अयं दर्भो विमन्युकः स्वाय चारणाय च। मन्योर्विमन्युकस्यायं मन्युशमन उच्यते ॥
स्वर रहित पद पाठअयम् । दर्भ: । विऽमन्युक:। स्वाय । च । अरणाय । च । मन्यो: । विऽमन्युकस्य । अयम् । मन्युऽशमन: । उच्यते ॥४३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 43; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(अयम्) पुरोवर्ती (दर्भः) दृदलिभ्यां भः। उ० ३।१५१। इति दॄ विदारणे−भ। यद्वा। दृभो ग्रन्थे−घञ्। दुःखविदारकः। सुकर्मग्रन्थकः (विमन्युकः) शेषाद् विभाषा। पा० ५।४।१५४। इति कप्। वि विगमितो मन्युर्येन सः। क्रोधनिवारकः (स्वाय) ज्ञातये (च च) समुच्चये (अरणाय) ऋ गतौ−ल्यु। प्राप्तव्याय शूद्रान्त्यजादये (मन्योः) मतुपो लोपः। मन्युमतः पुरुषस्य (विमन्युकस्य) सुपां सुपो भवन्तीति वक्तव्यम्। वा० पा० ७।१।३९। इति प्रथमार्थे षष्ठी। विमन्युकः। क्रोधनिवारकः (अयम्) (मन्युशमनः) क्रोधशान्तिकरः (उच्यते) अभिधीयते ॥
इस भाष्य को एडिट करें