Loading...
अथर्ववेद > काण्ड 6 > सूक्त 48

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 48/ मन्त्र 1
    सूक्त - अङ्गिरस् देवता - श्येनः छन्दः - उष्णिक् सूक्तम् - स्वस्तिवाचन सूक्त

    श्ये॒नोऽसि॑ गाय॒त्रच्छ॑न्दा॒ अनु॒ त्वा र॑भे। स्व॒स्ति मा॒ सं व॑हा॒स्य य॒ज्ञस्यो॒दृचि॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    श्ये॒न: । अ॒सि॒ । गा॒य॒त्रऽछ॑न्दा: । अनु॑ । त्वा॒ । आ । र॒भे॒ । स्व॒स्ति । मा॒ । सम् । व॒ह॒ । अ॒स्य । य॒ज्ञस्य॑ । उ॒त्ऽऋचि॑ । स्वाहा॑ ॥४८.१॥


    स्वर रहित मन्त्र

    श्येनोऽसि गायत्रच्छन्दा अनु त्वा रभे। स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥

    स्वर रहित पद पाठ

    श्येन: । असि । गायत्रऽछन्दा: । अनु । त्वा । आ । रभे । स्वस्ति । मा । सम् । वह । अस्य । यज्ञस्य । उत्ऽऋचि । स्वाहा ॥४८.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 48; मन्त्र » 1

    टिप्पणीः - १−(श्येनः) अ० ३।३।३। श्येन आत्मा भवति श्यायतेर्ज्ञानकर्मणः−निरु० १४।१३। महाज्ञानी परमात्मा (असि) (गायत्रच्छन्दाः) अभिनक्षियजि०। उ० ३।१०५। इति गै गाने−अत्रन्, स च णित्। आतो युक् चिण्कृतोः। पा० ७।३।३३। इति−युक्। गायत्रं गायतेः स्तुतिकर्मणः, निरु० १।८। चन्देरादेश्च छः। उ० ४।२१९। इति चदि आह्लादने−असुन् चस्य छः। छन्दति, अर्चतिकर्मा−निघ० ३।१४। गायत्राणि गानयोग्यानि छन्दांस्याह्लादकर्माणि यस्य सः (अनु) पश्चात् निरन्तरम् (त्वा) त्वाम् (आ रभे) परिगृह्णामि। आश्रयामि (स्वस्ति) कल्याणेन (मा) माम् (सम्) सम्यक् (वह) गमय (अस्य) वर्तमानस्य (यज्ञस्य) पूजनीयव्यवहारस्य (उदृचि) उत्तमायां स्तुतौ (स्वाहा) अ० २।१६।१। सुवाणी। आशीर्वादः ॥

    इस भाष्य को एडिट करें
    Top