Loading...
अथर्ववेद > काण्ड 6 > सूक्त 73

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 73/ मन्त्र 1
    सूक्त - अथर्वा देवता - सामंनस्यम्, वरुणः, सोमः, अग्निः, बृहस्पतिः, वसुगणः छन्दः - भुरिगनुष्टुप् सूक्तम् - सांमनस्य सूक्त

    एह या॑तु॒ वरु॑णः॒ सोमो॑ अ॒ग्निर्बृह॒स्पति॒र्वसु॑भि॒रेह या॑तु। अ॒स्य श्रिय॑मुप॒संया॑त॒ सर्व॑ उ॒ग्रस्य॑ चे॒त्तुः संम॑नसः सजाताः ॥

    स्वर सहित पद पाठ

    आ । इ॒ह । या॒तु॒ । वरु॑ण: । सोम॑: । अ॒ग्नि: । बृह॒स्पति॑: । असु॑ऽभि: । आ । इ॒ह । या॒तु॒ । अ॒स्य । श्रिय॑म् । उ॒प॒ऽसंया॑त । सर्वे॑ । उ॒ग्रस्य॑ । चे॒त्तु: । सम्ऽम॑नस: । स॒ऽजा॒ता॒: ॥७३.१॥


    स्वर रहित मन्त्र

    एह यातु वरुणः सोमो अग्निर्बृहस्पतिर्वसुभिरेह यातु। अस्य श्रियमुपसंयात सर्व उग्रस्य चेत्तुः संमनसः सजाताः ॥

    स्वर रहित पद पाठ

    आ । इह । यातु । वरुण: । सोम: । अग्नि: । बृहस्पति: । असुऽभि: । आ । इह । यातु । अस्य । श्रियम् । उपऽसंयात । सर्वे । उग्रस्य । चेत्तु: । सम्ऽमनस: । सऽजाता: ॥७३.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 73; मन्त्र » 1

    टिप्पणीः - १−(आयातु) आगच्छतु (इह) अस्मिन् गृहे (वरुणः) सूर्य्यवत् प्रतापी पुरुषः (बृहस्पतिः) बृहत्या वेदवाण्याः पालकः (वसुभिः) श्रेष्ठगुणैर्धनैर्वा (इह आ यातु) (अस्य) गृहस्थस्य (श्रियम्) सम्पदाम् (उपसंयात) उप आदरेण सम्यक् प्राप्नुत (सर्वे) समस्ताः पूर्वोक्ता यूयम् (उग्रस्य) तेजस्विनः (चेत्तुः) कर्त्तव्याकर्त्तव्यस्य ज्ञातुः (संमनसः) संमिलितचित्ताः (सजाताः) हे समानजन्मानो बान्धवाः ॥

    इस भाष्य को एडिट करें
    Top