Loading...
अथर्ववेद > काण्ड 6 > सूक्त 89

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 89/ मन्त्र 1
    सूक्त - अथर्वा देवता - सोमः छन्दः - अनुष्टुप् सूक्तम् - प्रीतिसंजनन सूक्त

    इ॒दं यत्प्रे॒ण्यः शिरो॑ द॒त्तं सोमे॑न॒ वृष्ण्य॑म्। ततः॒ परि॒ प्रजा॑तेन॒ हार्दिं॑ ते शोचयामसि ॥

    स्वर सहित पद पाठ

    इ॒दम् । यत् ।प्रे॒ण्य: । शिर॑: । द॒त्तम् । सोम॑न । वृष्ण्य॑म् । तत॑: । परि॑ । प्रऽजा॑तेन । हार्दि॑म् । ते॒ । शो॒च॒या॒म॒सि॒ ॥८९.१॥


    स्वर रहित मन्त्र

    इदं यत्प्रेण्यः शिरो दत्तं सोमेन वृष्ण्यम्। ततः परि प्रजातेन हार्दिं ते शोचयामसि ॥

    स्वर रहित पद पाठ

    इदम् । यत् ।प्रेण्य: । शिर: । दत्तम् । सोमन । वृष्ण्यम् । तत: । परि । प्रऽजातेन । हार्दिम् । ते । शोचयामसि ॥८९.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 89; मन्त्र » 1

    टिप्पणीः - १−(इदम्) शरीरस्थम् (यत्) (प्रेण्यः) वीज्याज्वरिभ्यो निः। उ० ४।४८। इति प्रीङ् प्रीतौ, वा प्रीञ् तर्पणे कान्तौ च−नि, वा ङीप् छान्दसो ह्रस्वः। प्रेण्याः। तर्पयित्र्याः सोमलताद्योषध्याः (शिरः) शिरोबलम् (दत्तम्) (सोमेन) सर्वोत्पादकेन परमेश्वरेण (वृष्ण्यम्) अ० ४।४।४। वीरत्वेन (ततः) तस्माद् बलात् (परि) सर्वतः (प्रजातेन) उत्पन्नेन साहसेन (हार्दिम्) बाह्वादिभ्यश्च। पा–० ४।१।९६। इति हृद्−इञ्। हार्दिकां शक्तिम् (ते) तव हे शत्रो (शोचयामसि) शोचयामः सन्तापयामः ॥

    इस भाष्य को एडिट करें
    Top