Loading...
अथर्ववेद > काण्ड 7 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 14/ मन्त्र 2
    सूक्त - अथर्वा देवता - सविता छन्दः - अनुष्टुप् सूक्तम् - सविता सूक्त

    उ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि। हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पात्स्वः ॥

    स्वर सहित पद पाठ

    ऊ॒र्ध्वा: । यस्य॑ । अ॒मति॑: । भा: । अदि॑द्युतत् । सवी॑मनि । हिर॑ण्यऽपाणि: । अ॒मि॒मी॒त॒ । सु॒ऽक्रतु॑: । कृ॒पात् । स्व᳡: ॥१५.२॥


    स्वर रहित मन्त्र

    उर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि। हिरण्यपाणिरमिमीत सुक्रतुः कृपात्स्वः ॥

    स्वर रहित पद पाठ

    ऊर्ध्वा: । यस्य । अमति: । भा: । अदिद्युतत् । सवीमनि । हिरण्यऽपाणि: । अमिमीत । सुऽक्रतु: । कृपात् । स्व: ॥१५.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 14; मन्त्र » 2

    टिप्पणीः - २−(ऊर्ध्वा) उत्कृष्टा (यस्य) सवितुः। परमेश्वरस्य (अमतिः) अमेरतिः। उ० ४।५९। अम गतौ-अति। व्यापनशीला (भाः) दीप्तिः (अदिद्युतत्) द्युत दीप्तौ स्वार्थे णिजन्ताच् चङि, रूपम् अद्युतत्। अदीपि (सवीमनि) जनिमृङ्भ्यामिमनिन्। उ० ४।१४९। इति षूङ् प्राणिप्रसवे-इमनिन्, वा दीर्घः। सवीमनि प्रसवे-निरु०, ६।७। सृष्टौ (हिरण्यपाणिः) हिरण्यानि अन्धकारस्य दारिद्र्यस्य वा हरणशीलानि सूर्यादीनि सुवर्णादीनि वा पाणौ व्यवहारे यस्य सः (अमिमीत) अ० ५।१२।११। निर्मितवान् (सुक्रतुः) शोभना क्रतुः प्रज्ञाः, कर्म वा यस्य सः (कृपात्) कृपू सामर्थ्ये-क। स्वसामर्थ्यात् (स्वः) स्वर्गं मोक्षसुखम् ॥

    इस भाष्य को एडिट करें
    Top