Loading...
अथर्ववेद > काण्ड 7 > सूक्त 79

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 79/ मन्त्र 2
    सूक्त - अथर्वा देवता - अमावस्या छन्दः - त्रिष्टुप् सूक्तम् - अमावस्य सूक्त

    अ॒हमे॒वास्म्य॑मावा॒स्या॒ मामा व॑सन्ति सु॒कृतो॒ मयी॒मे। मयि॑ दे॒वा उ॒भये॑ सा॒ध्याश्चेन्द्र॑ज्येष्ठाः॒ सम॑गच्छन्त॒ सर्वे॑ ॥

    स्वर सहित पद पाठ

    अ॒हम् । ए॒व । अ॒स्मि॒ । अ॒मा॒ऽवा॒स्या᳡ । माम् । आ । व॒स॒न्ति॒ । सु॒ऽकृ॒त॑: । मयि॑ । इ॒मे । मयि॑ । दे॒वा: । उ॒भये॑ । सा॒ध्या: । च॒ । इन्द्र॑ऽज्येष्ठा: । सम् । अ॒ग॒च्छ॒न्त॒ । सर्वे॑ ॥८४.२॥


    स्वर रहित मन्त्र

    अहमेवास्म्यमावास्या मामा वसन्ति सुकृतो मयीमे। मयि देवा उभये साध्याश्चेन्द्रज्येष्ठाः समगच्छन्त सर्वे ॥

    स्वर रहित पद पाठ

    अहम् । एव । अस्मि । अमाऽवास्या । माम् । आ । वसन्ति । सुऽकृत: । मयि । इमे । मयि । देवा: । उभये । साध्या: । च । इन्द्रऽज्येष्ठा: । सम् । अगच्छन्त । सर्वे ॥८४.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 79; मन्त्र » 2

    टिप्पणीः - २−(अहम्) परमेश्वरः (एव) (अस्मि) (अमावास्या) म० १। सर्वैः सह निवासशीला शक्तिः (माम्) इन्दिरा लोकमाता मा-अमरः १।२९। लक्ष्मीम् (आ वसन्ति) उपान्वध्याङ्वसः। पा० १।४।४८। अधिकरणस्य कर्मता। समन्ताद् अवतिष्ठन्तं (सुकृतः) सुकर्माणः (मयि) (देवाः) दिव्यपदार्थाः (उभये) अ० ४।३१।६। द्विविधाः, चराचराः (साध्याः) अ० ७।५।१। साधनीयाः। स्थावराः (इन्द्रज्येष्ठाः) जीवप्रधानाः। जङ्गमाः (सम्) समेत्य (अगच्छन्त) प्राप्तवन्तः (सर्वे) समस्ताः ॥

    इस भाष्य को एडिट करें
    Top