अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसानाष्टपदाकृतिः
सूक्तम् - अध्यात्म सूक्त
य इ॒मे द्यावा॑पृथि॒वी ज॒जान॒ यो द्रापिं॑ कृ॒त्वा भुव॑नानि॒ वस्ते॑। यस्मि॑न्क्षि॒यन्ति॑ प्र॒दिशः॒ षडु॒र्वीर्याः प॑त॒ङ्गो अनु॑ वि॒चाक॑शीति। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठय:। इ॒मे इति॑ । द्यावा॑पृथि॒वी । इति॑ । ज॒जान॑ । य: । द्रापि॑म् । कृ॒त्वा । भुव॑नानि। वस्ते॑ । यस्मि॑न् । क्षि॒यन्ति॑ । प्र॒ऽदिश॑: । षट् । उ॒र्वी: । या: । प॒त॒ङ् । अनु॑ । वि॒ऽचाक॑शीति । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.१॥
स्वर रहित मन्त्र
य इमे द्यावापृथिवी जजान यो द्रापिं कृत्वा भुवनानि वस्ते। यस्मिन्क्षियन्ति प्रदिशः षडुर्वीर्याः पतङ्गो अनु विचाकशीति। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठय:। इमे इति । द्यावापृथिवी । इति । जजान । य: । द्रापिम् । कृत्वा । भुवनानि। वस्ते । यस्मिन् । क्षियन्ति । प्रऽदिश: । षट् । उर्वी: । या: । पतङ् । अनु । विऽचाकशीति । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.१॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 1
विषय - रोहित, आत्मा ज्ञानवान् राजा और परमात्मा का वर्णन।
भावार्थ -
(यः) जो (इमे) इन दोनों (द्यावापृथिवी) द्यौ, आकाश और पृथिवी को (जजान) उत्पन्न करता है और (यः) जो (भुवनानि) समस्त लोकों को अपना (द्रापिम्) वस्त्र या चोला बनाकर उनमें (वस्ते) निवास करता है। अथवा (यः द्रापिं कृत्वा भुवनानि वस्ते) जो जो अपने आपको समस्त लोकों का आवरण वस्त्र बनाकर समस्त भुवनों को आच्छादित करता है। (यस्मिन्) जिसमें ये (षट्) छः (उर्वीः) विशाल (प्रदिशः) दिशाएं (क्षियन्ति) निवास करती हैं (याः, अनु) जिनमें (पतङ्गः) नित्य गतिशील सूर्य उस परमात्मा की शक्ति से अनुप्राणित होकर (विचाकशीति) विशेषरूप से प्रकाशित होता है। (यः) जो पुरुष (एवं विद्वांसं) इस प्रकार विद्वान् (ब्राह्मणं) ब्रह्मवेत्ता ब्राह्मण का (जिनाति) विनाश करता है (एतद्) यह (आगः) अपराध (तस्य) उस (क्रुद्धस्य देवस्य) क्रुद्ध देव परमेश्वर के प्रति ही है। हे (रोहित) रोहित, लोहित, तेजस्विन्, राजन् ! तू (ब्रह्मण्यस्य) ब्रह्मघाती को (उद्वेपय) कम्पा दे, (प्रक्षिणीहि) नाश करदे और उस पर (पाशान् प्रति मुञ्च) पाश डाल कर बांध ले।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्मम्। रोहित आदित्य देवता। १ चतुरवसानाष्टपदा आकृतिः, २-४ त्र्यवसाना षट्पदा [ २, ३ अष्टिः, २ भुरिक् ४ अति शाक्वरगर्भा धृतिः ], ५-७ चतुरवसाना सप्तपदा [ ५, ६ शाक्वरातिशाक्वरगर्भा प्रकृतिः ७ अनुष्टुप् गर्भाति धृतिः ], ८ त्र्यवसाना षट्पदा अत्यष्ठिः, ६-१९ चतुरवसाना [ ९-१२, १५, १७ सप्तपदा भुरिग् अतिधृतिः १५ निचृत्, १७ कृति:, १३, १४, १६, १९ अष्टपदा, १३, १४ विकृतिः, १६, १८, १९ आकृतिः, १९ भुरिक् ], २०, २२ त्र्यवसाना अष्टपदा अत्यष्टिः, २१, २३-२५ चतुरवसाना अष्टपदा [ २४ सप्तपदाकृतिः, २१ आकृतिः, २३, २५ विकृतिः ]। षड्विंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें