अथर्ववेद - काण्ड 15/ सूक्त 13/ मन्त्र 3
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तद्यस्यै॒वंवि॒द्वान्व्रात्यो॑ द्वि॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥
स्वर सहित पद पाठतत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । द्वि॒तीया॑म् । रात्रि॑म् । अति॑थि: । गृ॒हे । वस॑ति ॥१३.३॥
स्वर रहित मन्त्र
तद्यस्यैवंविद्वान्व्रात्यो द्वितीयां रात्रिमतिथिर्गृहे वसति ॥
स्वर रहित पद पाठतत् । यस्य । एवम् । विद्वान् । व्रात्य: । द्वितीयाम् । रात्रिम् । अतिथि: । गृहे । वसति ॥१३.३॥
अथर्ववेद - काण्ड » 15; सूक्त » 13; मन्त्र » 3
विषय - अतिथि यज्ञ का फल।
भावार्थ -
(तत् यस्य गृहे एवं विद्वान् व्रात्यः अतिथिः द्वितीयां रात्रिम् वसति) तो जिसके घर पर इस प्रकार का विद्वान् व्रात्य अतिथि होकर दूसरी रात्रिभर भी रह जाता है (ये अन्तरिक्षे पुण्या लोकाः तान् तेन अव रुन्धे) तो वह गृहपति अन्तरिक्ष में जो पुण्य लोक हैं (तान् अवरुन्धे) उनको अपने वश करता है।
टिप्पणी -
‘एकरात्रं चेदतिथिं वासयेत् पार्थिवान् लोकान् अभिनयति द्वितीय यान्तरिक्ष्यां स्तृतीयया दिव्यांश्चतुर्थ्यापरावतो लोकानपरिमिताभिरपरिमितांल्लोकानभिजयतीति विज्ञायते’ इति आपस्तम्बधर्मसूत्रे।
ऋषि | देवता | छन्द | स्वर - २ प्र० साम्नी उष्णिक्, १ द्वि० ३ द्वि० प्राजापत्यानुष्टुप्, २-४ (प्र०) आसुरी गायत्री, २ द्वि०, ४ द्वि० साम्नी बृहती, ५ प्र० त्रिपदा निचृद् गायत्री, ५ द्वि० द्विपदा विराड् गायत्री, ६ प्राजापत्या पंक्तिः, ७ आसुरी जगती, ८ सतः पंक्तिः, ९ अक्षरपंक्तिः। चतुर्दशर्चं त्रयोदशं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें