अथर्ववेद - काण्ड 7/ सूक्त 5/ मन्त्र 1
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्। ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥
स्वर सहित पद पाठय॒ज्ञेन॑ । य॒ज्ञम् । अ॒य॒ज॒न्त॒ । दे॒वा: । तानि॑ । धर्मा॑णि । प्र॒थ॒मानि॑ । आ॒स॒न् । ते । ह॒ । नाक॑म् । म॒हि॒मान॑: । स॒च॒न्त॒ । यत्र॑ । पूर्वे॑ । सा॒ध्या: । सन्ति॑ । दे॒वा: ॥५.१॥
स्वर रहित मन्त्र
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
स्वर रहित पद पाठयज्ञेन । यज्ञम् । अयजन्त । देवा: । तानि । धर्माणि । प्रथमानि । आसन् । ते । ह । नाकम् । महिमान: । सचन्त । यत्र । पूर्वे । साध्या: । सन्ति । देवा: ॥५.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 5; मन्त्र » 1
विषय - आत्मज्ञान का उपदेश।
भावार्थ -
(देवाः) देवगण, विद्वान् पुरुष (यज्ञेन) यज्ञ अर्थात् समाधिरूप आत्मयज्ञ से (यज्ञम्) सबके पूजनीय परम आत्मा की (अयजन्त) उपासना करते हैं (तानि) वे ही (प्रथमानि) सब से उत्कृष्ट (धर्माणि) मोक्ष प्राप्ति और अभ्युदय के साधन (आसन्) हैं। (ते) वे इन योगसमाधि की साधना करने हारे योगीजन (महिमानः) महत्व गुण को प्राप्त करके (नाकम्) दुःखरहित मोक्षाख्य परम पुरुषार्थ को (सचन्त) प्राप्त होते हैं। (यन्त्र) जिसमें कि (पूर्वे) पूर्व मुक्त हुए (साध्याः) साधनासिद्ध (देवाः) ज्योतिर्मय, मुक्त पुरुष (सन्ति) विराजते हैं। ‘नाक’ अर्थात् स्वर्ग का लक्षण—
दुःखेन यन्न संभिन्नं नच ग्रस्तमनन्तरम् ॥
अभिलाषोपनीतं यत् सुखं स्वर्गपदास्पदम्।
टिप्पणी -
ऋग्वेदे दीर्घतमा ऋषिः। साध्याः देवताः॥ तत्रैव पुरुषसूक्तपाठे नारायण ऋषिः। पुरुषो देवता॥ यजुषि नारायण ऋषिः। पुरुषो देवता॥ पुरुषसूक्तस्य नारायण ऋषिः। पुरुषो देवता। अनुष्टुप् छन्दः। मोक्षे विनियोगः। अस्य भाष्यं शौनको नाम ऋषिरकरोत्। प्रथमविच्छेदः क्रियाकारकसम्बन्धः समासः प्रमेयार्थव्याख्येति सर्वमेतज्जनकाय मोक्षार्थं कथयामासेति उव्वटः। नारायणपुरुषदृष्टा जगद्वीजपुरुषदेवत्याषोडश ऋचः इति महीधरः॥ नारायण ऋषिः, राजेश्वरो देवता इति अजमेरमुद्रितायां यजुःसंहितायाम् ॥
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। आत्मा देवता। त्रिष्टुप्। पञ्चर्चं सूक्तम्।
इस भाष्य को एडिट करें