ऋग्वेद - मण्डल 4/ सूक्त 20/ मन्त्र 3
ऋषिः - वामदेवो गौतमः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इ॒मं य॒ज्ञं त्वम॒स्माक॑मिन्द्र पु॒रो दध॑त्सनिष्यसि॒ क्रतुं॑ नः। श्व॒ध्नीव॑ वज्रिन्त्स॒नये॒ धना॑नां॒ त्वया॑ व॒यम॒र्य आ॒जिं ज॑येम ॥३॥
स्वर सहित पद पाठइ॒मम् । य॒ज्ञम् । त्वम् । अ॒स्माक॑म् । इ॒न्द्र॒ । पु॒रः । दध॑त् । स॒नि॒ष्य॒सि॒ । क्रतु॑म् । नः॒ । श्व॒घ्नीऽइ॑व । व॒ज्रि॒न् । स॒नये॑ । धना॑नाम् । त्वया॑ । व॒यम् । अ॒र्यः । आ॒जिम् । ज॒ये॒म॒ ॥
स्वर रहित मन्त्र
इमं यज्ञं त्वमस्माकमिन्द्र पुरो दधत्सनिष्यसि क्रतुं नः। श्वध्नीव वज्रिन्त्सनये धनानां त्वया वयमर्य आजिं जयेम ॥३॥
स्वर रहित पद पाठइमम्। यज्ञम्। त्वम्। अस्माकम्। इन्द्र। पुरः। दधत्। सनिष्यसि। क्रतुम्। नः। श्वघ्नीऽइव। वज्रिन्। सनये। धनानाम्। त्वया। वयम्। अर्यः। आजिम्। जयेम ॥३॥
ऋग्वेद - मण्डल » 4; सूक्त » 20; मन्त्र » 3
अष्टक » 3; अध्याय » 6; वर्ग » 3; मन्त्र » 3
अष्टक » 3; अध्याय » 6; वर्ग » 3; मन्त्र » 3
विषय - राजा के प्रजा पालन के धर्मों का उपदेश।
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् ! (त्वम्) तू (अस्माकम्) हमारे (इमं) इस (यज्ञं) परस्पर के आदर सत्संग, मैत्रीभाव और राज्य-प्रबन्ध को (पुरः दधत्) सबके समक्ष धारण करे। इस प्रकार तू (नः) हमें (क्रतुम्) उत्तम प्रज्ञा या बुद्धि को (सनिष्यसि) प्रदान कर सकेगा। हे (वज्रिन्) वीर्य बल से युक्त ! (धनानां सनये) ऐश्वर्यों को प्राप्त करने के लिये (वयम्) हम सब (अर्यः) स्वामी होकर (त्वया) तेरे द्वारा (श्वघ्नी इव) कितव वा जुआरी के समान (आजिम्) स्पर्धा के लक्ष्य को (जयेम) विजय करें ।
टिप्पणी -
‘श्वघ्नी’ कितवो भवति ।यास्कः निरुक्ते ५। ४। ३॥
ऋषि | देवता | छन्द | स्वर - वामदेव ऋषिः॥ इन्द्रो देवता॥ छन्द:- १, ३, ६ निचृत्त्रिष्टुप् । ४, ५ विराट् त्रिष्टुप्। ८, १० त्रिष्टुप् । २ पंक्तिः। ७, ९ स्वराट् पंक्तिः। ११ निचृत्पंक्तिः। एकादशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें