Loading...
यजुर्वेद अध्याय - 40

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 40/ मन्त्र 8
    ऋषिः - दीर्घतमा ऋषिः देवता - आत्मा देवता छन्दः - स्वराड्जगती स्वरः - निषादः
    2

    स पर्य॑गाच्छु॒क्रम॑का॒यम॑व्र॒णम॑स्नावि॒रꣳ शु॒द्धमपा॑पविद्धम्।क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑य॒म्भूर्या॑थातथ्य॒तोऽर्था॒न् व्यदधाच्छाश्व॒तीभ्यः॒ समा॑भ्यः॥८॥

    स्वर सहित पद पाठ

    सः। परि॑। अ॒गा॒त्। शु॒क्रम्। अ॒का॒यम्। अ॒व्र॒णम्। अ॒स्ना॒वि॒रम्। शु॒द्धम्। अपा॑पविद्ध॒मित्यपा॑पऽविद्धम् ॥ क॒विः। म॒नी॒षी। प॒रि॒भूरिति॑ परि॒ऽभूः। स्व॒यम्भूरिति॑ स्वय॒म्ऽभूः। या॒था॒त॒थ्य॒त इति॑ याथाऽत॒थ्य॒तः। अर्था॑न्। वि। अ॒द॒धा॒त्। शा॒श्व॒तीभ्यः॑। समा॑भ्यः ॥८ ॥


    स्वर रहित मन्त्र

    स पर्यगाच्छुक्रमकायमव्रणमस्नाविरँ शुद्धमपापविद्धम् । कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥


    स्वर रहित पद पाठ

    सः। परि। अगात्। शुक्रम्। अकायम्। अव्रणम्। अस्नाविरम्। शुद्धम्। अपापविद्धमित्यपापऽविद्धम्॥ कविः। मनीषी। परिभूरिति परिऽभूः। स्वयम्भूरिति स्वयम्ऽभूः। याथातथ्यत इति याथाऽतथ्यतः। अर्थान्। वि। अदधात्। शाश्वतीभ्यः। समाभ्यः॥८॥

    यजुर्वेद - अध्याय » 40; मन्त्र » 8
    Acknowledgment

    व्याख्यानम् -

    अस्यायमभिप्रायः—यः पूर्वोक्तः सर्वव्यापकत्वादिविशेषणयुक्तं ईश्वरोऽस्ति, ( स पर्यगात् ) परितः सर्वतोऽगात् प्राप्तवानस्ति, नैवैकः परमाणुरपि तद्व्याप्त्या विनास्ति, ( शुक्रम् ) तद् ब्रह्म सर्वजगत्कर्त्तृवीर्यवदनन्तबलवदस्ति, ( अकायम् ) तत्स्थूलसूक्ष्मकारणशरीरत्रयसम्बन्धरहितम्, ( अव्रणम् ) नैवैतस्मिँश्छिद्रं कर्त्तुं परमाणुरपि शक्नोति, अत एव छेदरहितत्वादक्षतम्, ( अस्नाविरम् ) तन्नाडीसम्बन्ध-रहितत्वाद् बन्धनावरणविमुक्तम्, ( शुद्धम् ) तदविद्यादिदोषेभ्यः सर्वदा पृथग्वर्त्तमानम्, ( अपापविद्धम् ) नैव तत्पापयुक्तं पापकारि च कदाचिद्भवति, ( कविः ) सर्वज्ञः, ( मनीषी ) यः सर्वेषां मनसामीषी साक्षी ज्ञातास्ति, ( परिभूः ) सर्वेषामुपरि विराजमानः, ( स्वयंभूः ) यो निमित्तोपादानसाधारणकारणत्रयरहितः, स एव सर्वेषां पिता, नह्यस्य कश्चित् जनकः स्वसामर्थ्येन सहैव सदा वर्तमानोऽस्ति, ( शाश्वतीभ्यः ) य एवंभूतः सच्चिदानन्दस्वरूपः परमात्मा, ( सः ) सर्गादौ स्वकीयाभ्यः शाश्वतीभ्यो निरन्तराभ्यः ( समाभ्यः ) प्रजाभ्यो ( याथातथ्यतः ) यथार्थस्वरूपेण वेदोपदेशेन ( अर्थान् व्यदधात् ) विधत्तवानर्थाद् यदा यदा सृष्टिं करोति तदा तदा प्रजाभ्यो हितायादिसृष्टौ सर्वविद्यासमन्वितं वेदशास्त्रं स एव भगवानुपदिशति। अत एव नैव वेदानामनित्यत्वं केनापि मन्तव्यम्, तस्य विद्यायाः सर्वदैकरसवर्त्तमानत्वात्।

    इस भाष्य को एडिट करें
    Top