Loading...
ऋग्वेद मण्डल - 10 के सूक्त 100 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 100/ मन्त्र 12
    ऋषिः - दुवस्युर्वान्दनः देवता - विश्वेदेवा: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    चि॒त्रस्ते॑ भा॒नुः क्र॑तु॒प्रा अ॑भि॒ष्टिः सन्ति॒ स्पृधो॑ जरणि॒प्रा अधृ॑ष्टाः । रजि॑ष्ठया॒ रज्या॑ प॒श्व आ गोस्तूतू॑र्षति॒ पर्यग्रं॑ दुव॒स्युः ॥

    स्वर सहित पद पाठ

    चि॒त्रः । ते॒ । भा॒नुः । क्र॒तु॒ऽप्राः । अ॒भि॒ष्टिः । सन्ति॑ । स्पृधः॑ । ज॒र॒णि॒ऽप्राः । अधृ॑ष्टाः । रजि॑ष्टया । रज्या॑ । प॒श्वः । आ । गोः । तूतू॑र्षति । परि॑ । अग्र॑म् । दु॒व॒स्युः ॥


    स्वर रहित मन्त्र

    चित्रस्ते भानुः क्रतुप्रा अभिष्टिः सन्ति स्पृधो जरणिप्रा अधृष्टाः । रजिष्ठया रज्या पश्व आ गोस्तूतूर्षति पर्यग्रं दुवस्युः ॥

    स्वर रहित पद पाठ

    चित्रः । ते । भानुः । क्रतुऽप्राः । अभिष्टिः । सन्ति । स्पृधः । जरणिऽप्राः । अधृष्टाः । रजिष्टया । रज्या । पश्वः । आ । गोः । तूतूर्षति । परि । अग्रम् । दुवस्युः ॥ १०.१००.१२

    ऋग्वेद - मण्डल » 10; सूक्त » 100; मन्त्र » 12
    अष्टक » 8; अध्याय » 5; वर्ग » 17; मन्त्र » 6

    पदार्थः -
    (ते) हे परमात्मन् ! तव (भानुः) शक्तिरूपः प्रकाशः (चित्रः) चायनीयो दर्शनीयः (क्रतुपाः) कर्मणां पूरको यथोचितफलप्रदानेन (अभिष्टिः) अभिकाङ्क्षणीयः (स्पृधः-जरणिप्राः) तव स्पृहाः “स्पृह धातोः क्विप् हकारस्य धकारश्छान्दसः” स्तोतॄणां कामपूरयित्र्यः (अधृष्टाः सन्ति) अबाध्याः सन्ति (गोः पश्वः) यथा गोः पशोः (दुवस्युः) परिचारकः “दुवस्यति परिचरणकर्मा” [निघं० ३।५] (रजिष्ठया रज्या) अति सरलया रज्वा “वकारलोपश्छान्दसः” (अग्रं परि-आ तूतूर्षति) स्वग्रं सम्मुखं त्वरया प्रापयति तथा तव परिचारकः स्तोता सरलतया स्तुत्या त्वां स्वाग्रं त्वरया प्रापयति ॥१२॥

    इस भाष्य को एडिट करें
    Top